Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 04 जूनमासः (हि.स)।
केन्द्रीयवाणिज्यउद्योगमन्त्री पीयूषगोयलः गुरुवासरे उक्तवान् यत् भारतं विश्वस्य सर्वाधिकविश्वसनीयेषु निवेशगन्तव्येषु अन्यतमरूपेण उदितम् अस्ति तथा च आगामिषु बहुषु दशकेषु अपि शीघ्रतमवर्धमानप्रमुखार्थव्यवस्थारूपेण स्थितुं सज्जम् अस्ति।
मुंबईनगरे आयोजितं सिटी इण्डिया सम्मेलनम् २०२६ इति कार्यक्रमं पीयूषगोयलः आभासीयमाध्यमेन सम्बोधयन् एतद् अवदत्। स्वीयसम्बोधने सः तेषां विशालानां निवेशावसराणामपि उल्लेखम् अकरोत् ये भारतेन विश्वाय प्रदीयन्ते। वैश्विकनिवेशकानां कृते अनुकूलपरिवेशस्य निर्माणार्थं मोदीशासनेन क्रियमाणानां प्रयत्नानामपि सः उल्लेखम् अकरोत्।
सः भारतस्य आर्थिकसुदृढताम्, वर्धमानं विनिर्माणाधारम्, आधारभूतसंरचनायाः विकासम् तथा व्यापारसम्झौतानां विस्तृतजालं निवेशकविश्वासस्य प्रमुखाधाररूपेण निरदिशत्। पीयूषगोयलः उक्तवान् यत् कनाडादेशे अमेरिकादेशे च निवेशकैः व्यापारनेतृभिश्च सह तस्य अर्वाचीनसंवादाः भारतस्य विषये विश्वव्यापिनीं गाढरुचिं प्रकाशयन्ति। अनेके जनाः भारतं विश्वसनीयसहभागिरूपेण तथा विनिर्माणक्षेत्रस्य विश्वसनीयवैकल्पिककेन्द्ररूपेण पश्यन्ति।
सः भारतस्य विश्वस्य सर्वाधिकविश्वसनीयनिवेशगन्तव्यरूपेण उदयस्य विषये प्रकाशम् अकरोत् तथा च विनिर्माणे, व्यापारसुलभतायाम्, आधारभूतसंरचनायाम्, प्रौद्योगिकीस्वीकरणे तथा वैश्विकव्यापारसम्बन्धसुदृढीकरणे शासनस्य निरन्तरप्रयत्नानां रूपरेखाम् अपि प्रस्तुतवान्। टोरण्टोनगरे न्यूयॉर्कनगरे च स्वीययात्रायाः समये सम्पन्नानां चर्चानाम् उल्लेखं कुर्वन् पीयूषगोयलः अवदत् यत् भारतस्य लोकतान्त्रिकव्यवस्था, विधिशासनम्, प्रौद्योगिकीक्षमताः तथा विशालोपभोक्तृ-आपणाः इत्येतेषां कारणात् दीर्घकालिकवैश्विकपूञ्जीप्रवाहः द्रुतगत्या भारतस्य दिशि वर्धते। तेन उक्तं यत् प्रस्तावितभारतकनाडामुक्तव्यापारसम्झौताय निवेशकैः सकारात्मकप्रतिक्रिया प्रदत्ता, तथा च विश्वस्य प्रमुखनिवेशसंस्थाभिः सह सम्पन्नासु बैठकासु भारतस्य विकाससम्भावनासु विश्वासः अधिकं सुदृढः जातः।
वाणिज्यमन्त्री उक्तवान् यत् भारतेन गतसार्धत्रिवर्षेषु नव मुक्तव्यापारसम्झौताः सम्पन्नाः, येषु अष्टत्रिंशत् विकसितार्थव्यवस्थाः समाविष्टाः सन्ति। एतेभ्यः सहमतिभ्यः बाजारप्रवेशस्य विस्तारः, निवेशस्य सुलभीकरणम् तथा प्रतिभासञ्चारस्य प्रोत्साहनं च प्राप्तम्। सः अवदत् यत् ओमानदेशेन सह मुक्तव्यापारसहमतिर्जूनमासस्य प्रथमदिनात् प्रवृत्तिः अस्ति तथा च आगामिमासेषु अन्ये अपि बहवः व्यापारसम्झौताः प्रवर्तिष्यन्ते इति संकेतं दत्तवान्।
पीयूषगोयलः उक्तवान् यत् भारतं प्रतिस्पर्धात्मकरीत्या अभिकल्पितैः निर्मितैश्च उच्चगुणवत्तायुक्तैः उत्पादैः, वस्तुभिः तथा सेवाभिः अपरिमितां क्षमता, सम्भावना तथा लाभप्रदतां प्रददाति। तेन पुनरुक्तं यत् भारतं वैश्विकनिवेशकानां कृते आकर्षकं गन्तव्यं वर्तते। सः विश्वासं व्यक्तवान् यत् एकचत्वारिंशदधिकशतकोटिभारतीयजनानां तथा अन्ताराष्ट्रियसहभागिनां संयुक्तप्रयत्नैः समर्थिता भारतीयार्थव्यवस्था एकविंशतितमशताब्द्याः सर्वाधिकनिर्णायकमहत्त्वपूर्णविकासगाथारूपेण उदेष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani