जयशंकरो वेनेजुएलायाः कार्यवाहकेन राष्ट्रपतिना सह अकरोन्मेलनम्
नव दिल्ली, 04 जूनमासः (हि.स.)।विदेशमन्त्री डॉ. एस. जयशङ्करः अद्य अत्र वेनेजुएलादेशस्य कार्यवाहकराष्ट्रपतिं डेल्सी रोड्रिगेजं सममिलत्। डॉ. जयशङ्करेण एक्स माध्यमे लिखितम् यत् अद्य अत्र दिल्लीनगरे वेनेजुएलादेशस्य कार्यवाहकराष्ट्रपतिं डेल्सी रोड्रिगेजं
वेनेज़ुएला की कार्यवाहक राष्ट्रपति डेल्सी और विदेश मंत्री एस. जयशंकर मौजूद।


नव दिल्ली, 04 जूनमासः (हि.स.)।विदेशमन्त्री डॉ. एस. जयशङ्करः अद्य अत्र वेनेजुएलादेशस्य कार्यवाहकराष्ट्रपतिं डेल्सी रोड्रिगेजं सममिलत्। डॉ. जयशङ्करेण एक्स माध्यमे लिखितम् यत् अद्य अत्र दिल्लीनगरे वेनेजुएलादेशस्य कार्यवाहकराष्ट्रपतिं डेल्सी रोड्रिगेजं मिलित्वा मम अत्यन्तं हर्षः अभवत्। भारत वेनेजुएला सम्बन्धानां प्रति तस्याः दीर्घकालिकसमर्पणस्य अहं महतीं प्रशंसांं करोमि। प्रधानमन्त्री नरेन्द्रमोदिना सह तस्याः भेंट अस्माकं सहयोगं अधिकं सुदृढं करिष्यति।

यात्रायाः समये कार्यवाहकराष्ट्रपतिः रोड्रिगेज प्रधानमन्त्री मोदीना सह द्विपक्षीयवार्तां करिष्यति। एतासु वार्तासु भारत वेनेजुएला सम्बन्धानां सर्वेषां पक्षाणां विषये चर्चा भविष्यति तथा च ऊर्जासुरक्षा व्यापारनिवेश औषधनिर्माण स्वास्थ्यसेवा परिवहन नवीकरणीयऊर्जा इत्यादिषु क्षेत्रेषु अग्रिमसहयोगस्य मार्गाः अन्वेषिताः भविष्यन्ति।

उल्लेखनीयम् अस्ति यत् वेनेजुएलादेशस्य कार्यवाहकराष्ट्रपतिः डेल्सी रोड्रिगेज ३ जूनतः ७ जूनपर्यन्तं भारतयात्रायां वर्तते। सा अद्य प्रधानमन्त्री नरेन्द्रमोदिना सह द्विपक्षीयवार्तां करिष्यति। अस्मिन् अवसरे उभयदेशयोः मध्ये ऊर्जा व्यापार निवेश उत्पादन स्वास्थ्य परिवहनक्षेत्रेषु सहयोगवृद्धेः विषये चर्चा भवितुम् सम्भावना अस्ति। कार्यवाहकराष्ट्रपतेः सह विदेशकार्य अर्थव्यवस्था वित्त विज्ञानप्रौद्योगिकी सञ्चारसूचना तथा परिवहनमन्त्रिणां प्रतिनिधिमण्डलम् अपि आगतम् अस्ति।

कार्यवाहकराष्ट्रपतिः रोड्रिगेज अस्मात् पूर्वं विदेशमन्त्रिणी उपराष्ट्रपतिः च भूत्वा अनेकवारं भारतस्य भ्रमणं कृतवती अस्ति। एषा तस्याः षष्ठी भारतयात्रा अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani