उत्तर कोरियायाः नेता किम जोंग-उन परमाणु सामग्रीणाम् उत्पादन सुविधा केंद्रस्य अकरोद्भ्रमणम्
प्योंगयांगः (उत्तरकोरिया)/सियोलम् (दक्षिण कोरिया), 04 जूनमासः (हि.स.)। उत्तरकोरियादेशस्य सर्वोच्चनेता किमजोंगउनः अर्वाचीनकाले आरब्धस्य एकस्य परमाणुपदार्थोत्पादनकेन्द्रस्य भ्रमणं कृतवान्। अस्मिन् अवसरे सः देशस्य परमाण्वस्त्रसञ्चयं शीघ्रतया सुदृढीक
ca17fa7f07164aced44498d1fb805b4c_1774489499.jpg


प्योंगयांगः (उत्तरकोरिया)/सियोलम् (दक्षिण कोरिया), 04 जूनमासः (हि.स.)।

उत्तरकोरियादेशस्य सर्वोच्चनेता किमजोंगउनः अर्वाचीनकाले आरब्धस्य एकस्य परमाणुपदार्थोत्पादनकेन्द्रस्य भ्रमणं कृतवान्। अस्मिन् अवसरे सः देशस्य परमाण्वस्त्रसञ्चयं शीघ्रतया सुदृढीकर्तुं संकल्पम् अकरोत्। तेन सह दलस्य प्रमुखाधिकारीणः अपि उपस्थिताः आसन्। एषा सूचना गुरुवासरे राजकीयवार्तासंस्था कोरियाकेन्द्रीयवार्तासंस्थया प्रदत्ता। वार्तासंस्थया अस्य स्थानस्य प्रकटनं न कृतम्।

दक्षिणकोरियादेशस्य समाचारपत्रे कोरियाटाइम्स इत्यस्मिन् प्रकाशितायां वार्तायां कोरियाकेन्द्रीयवार्तासंस्थायाः तथा दक्षिणकोरियारक्षामन्त्रालयस्य उद्धरणं कृत्वा अस्य घटनाक्रमस्य चर्चा कृता अस्ति। सियोलनगरे रक्षामन्त्रालयस्य संवाददातृसम्मेलने उक्तं यत् एतत् केन्द्रं यूरेनियमसंवर्धनस्थलं भवितुम् अर्हति। अधुना उत्तरकोरियादेशस्य योंगब्योन, कांगसोन तथा कुसोंग इत्येषु स्थानेषु यूरेनियमसंवर्धनकेन्द्राणि सन्ति। रक्षामन्त्रालयेन उक्तं यत् किमजोंगउनः किम् अन्यस्य चतुर्थस्य केन्द्रस्य भ्रमणं कृतवान् वा इति स्पष्टं नास्ति।

किमजोंगउनः उक्तवान् यत् गतपञ्चवर्षेषु उत्तरकोरियादेशस्य परमाणुपदार्थोत्पादनक्षमता द्विगुणात् अपि अधिका जाता अस्ति। एषा सम्भावितसंकटस्य तथा अप्रत्याशितदीर्घकालिकसंकटकालस्य कृते अत्यन्तं महत्त्वपूर्णा अस्ति। तेन संकेतः दत्तः यत् प्योंगयाङ्गनगरस्य स्वस्य परमाण्वभिलाषात् प्रतिनिवर्तनस्य कश्चन अभिप्रायः नास्ति। तेन उक्तं यत् एतत् नवीनं केन्द्रं देशस्य परमाणुक्षमतायाः शीघ्रविकासस्य दिशि एकं मीलस्तम्भरूपं सिद्धम् अस्ति।

उल्लेखनीयम् अस्ति यत् द्विसहस्रचतुर्विंशत्यधिकवर्षस्य सेप्टेम्बरमासे उत्तरकोरियादेशेन प्रथमवारं स्वस्य यूरेनियमसंवर्धनसुविधायाः प्रकटनं कृतम्।

---------------

Hindusthan Samachar / Dheeraj Maithani