Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, ०४ जूनमासः (हि.स.)। मध्यप्रदेशे निवेशस्य, निर्यातस्य तथा अन्ताराष्ट्रिय-व्यापारिक-सहभागितानां संवर्धनाय आगामि ६ जून-मासे इन्दौर-नगरे भारत-लैटिन-अमेरिका-कैरिबियन (एलएसी) व्यापार-निवेश-मञ्चस्य २०२६-वर्षीय-सभा आयोजिता भविष्यति। मुख्यमन्त्री डॉ.मोहन-यादवः अस्याः सभायाः शुभारम्भं करिष्यति।
जनसम्पर्क-अधिकारिणी बबीता-मिश्रा अवदत् यत् अस्मिन् मञ्चे लैटिन-अमेरिका-कैरिबियन-क्षेत्रस्य १५ देशानां वरिष्ठ-राजनयिक-प्रतिनिधयः सहभागिता करिष्यन्ति। तेषु विभिन्न-देशानां राजदूताः, उच्चायुक्तः, महावाणिज्यदूतः च सन्ति। निवेशकाः, निर्यातकाः, उद्योग-प्रतिनिधयः, व्यापार-आयुक्ताः, लघु-मध्यम-उद्योग-क्षेत्रस्य प्रतिनिधयः तथा वरिष्ठ-अधिकारिभि: सहितं ३५० अधिकाः प्रतिनिधयः अपि उपस्थिताः भविष्यन्ति।
सा अवदत् यत् मुख्यमन्त्रिणः नेतृत्वे मध्यप्रदेशः वैश्विक-निवेशकानां कृते आकर्षक-निवेश-केन्द्ररूपेण उद्भवति। राज्यस्य उद्योगानुकूल-नीतयः, उन्नता आधारभूत-संरचना, शीघ्र-निर्णय-प्रक्रिया तथा निवेशकहितैषी-परिवेशः अन्ताराष्ट्रिय-निवेशकान् आकर्षयति।
वर्षे २०२५-२६ मध्ये मध्यप्रदेशात् लैटिन-अमेरिका-कैरिबियन-क्षेत्रे प्रायः ४,१८६ कोटि-रूप्यकाणां निर्यातः अभिलेखितः, यः गतवर्षस्य अपेक्षया १२.६ प्रतिशतं अधिकः आसीत्। अस्मिन् निर्याते औषधि-उद्योगस्य महत्त्वपूर्णं योगदानम् अस्ति। ब्राजील, मेक्सिको तथा चिली राज्यस्य प्रमुख-निर्यात-विपणानि सन्ति।
मञ्चे मुख्यमन्त्री डॉ. मोहन-यादवः मध्यप्रदेशस्य औद्योगिक-प्रगतिं, निवेश-अवसरान् तथा वैश्विक-सहभागितानां विषये सम्बोधनं करिष्यति। कार्यक्रमे निवेश-सम्भावनानां प्रस्तुतीकरणम्, व्यापार-निवेश-अवसर-विमर्शः, तथा उद्योगपतिनां निवेशकानां च मध्ये प्रत्यक्ष-संवादार्थं बी२बी तथा बी२जी सभानाम् आयोजनम् अपि भविष्यति।
Hindusthan Samachar / Divya Ranjan