जातीय-भेदभावस्य विरुद्धं सामाजिक-चिन्तनस्य संस्काराणां च परिवर्तनस्य आवश्यकता अस्ति - बालेन्द्र-शाहः
काठमाण्डूनगरम्, ०४ जूनमासः (हि.स.)। नेपालस्य प्रधानमन्त्री बालेन्द्र-शाहः उक्तवान् यत् जातीय-अस्पृश्यता-भेदभावयोः विरुद्धं केवलं अधिनियम-निर्माणं पर्याप्तं नास्ति, अपितु समाजस्य चिन्तने संस्कारेषु च परिवर्तनम् अपि आवश्यकम् अस्ति। जातीय-भेदभाव-अस्प
नेपाल के प्रधानमंत्री बालेन्द्र शाह


काठमाण्डूनगरम्, ०४ जूनमासः (हि.स.)। नेपालस्य प्रधानमन्त्री बालेन्द्र-शाहः उक्तवान् यत् जातीय-अस्पृश्यता-भेदभावयोः विरुद्धं केवलं अधिनियम-निर्माणं पर्याप्तं नास्ति, अपितु समाजस्य चिन्तने संस्कारेषु च परिवर्तनम् अपि आवश्यकम् अस्ति।

जातीय-भेदभाव-अस्पृश्यता-उन्मूलन-राष्ट्रीय-दिवसस्य अवसरे गुरुवासरे प्रसारिते स्वीये शुभकामना-सन्देशे सः अवदत् यत् जातीय-भेदभावः अस्पृश्यता च सभ्य-समाजस्य मूल्यमानानां विरुद्धे स्तः। तयोः पूर्ण-उन्मूलनाय राज्येन, समाजेन, नागरिकैश्च संयुक्तरूपेण निरन्तरं प्रयत्नः करणीयः।

प्रधानमन्त्री शाहः अवदत् यत् समानता, सम्मानं तथा मानवीय-गरिमा इत्येतानां मूल्यानां व्यवहारिक-पालनेन भेदभाव-विरुद्धं जागरूकस्य उत्तरदायित्वपूर्णस्य च सामाजिक-परिवेशस्य निर्माणं सर्वेषां सामूहिकं दायित्वम् अस्ति।

सः सामाजिक-सौहार्दस्य, समान-अवसरस्य तथा मानव-गरिमायाः सुदृढीकरणे बलं दत्त्वा उक्तवान् यत् समतामूलक-समाजस्य निर्माणाय केवलं वैधानिक-व्यवस्था न पर्याप्ता, अपितु सामाजिक-व्यवहारे चिन्तने च सकारात्मक-परिवर्तनम् आवश्यकम्। तेन सर्वेभ्यः नागरिकेभ्यः जातीय-भेदभावस्य अस्पृश्यतायाश्च कुप्रथायाः विरुद्धम् एकतया कार्यं कर्तुं तथा समानता-सम्मान-आधारित-समाज-निर्माणे सक्रिय-भूमिकां निर्वोढुम् आह्वानं कृतम्।

Hindusthan Samachar / Divya Ranjan