Enter your Email Address to subscribe to our newsletters

नवदेहली, ०४ जूनमासः (हि.स.)। नेपालस्य सत्तारूढ-दलस्य राष्ट्रिय-स्वतन्त्र-पक्ष: (आरएसपी) इत्यस्य अध्यक्षः रवि-लामिछाने गुरुवासरे उक्तवान् यत् नेपालस्य समृद्धि-विकासयोः कृते भारतेन सह आर्थिक-सहयोगः, संवादः तथा सहभागिता: अत्यावश्यका: सन्ति।
भारतस्य पञ्च-दिवसीय-भ्रमणे आगतः लामिछाने एकस्मिन् कार्यक्रमे अवदत्— “अहं नूतन-राजनीतिक-द्वार-उद्घाटनाय न, अपितु समृद्धेः द्वारम् उद्घाटयितुम् अत्र आगतः अस्मि। मम न कश्चन व्यक्तिगतः स्वार्थः, न च दलस्य विशेषा अपेक्षा अस्ति; सर्वाः प्राथमिकताः केवलं नेपालस्य नेपाली-जनानां च उन्नतौ केन्द्रिताः सन्ति।”
सः अवदत् यत् गत-दश-द्वादश-वर्षेषु भारतेन विकास-समृद्धि-क्षेत्रे महती प्रगति: कृता, यां नेपालः समीपस्थ-राष्ट्रत्वेन दृष्टवान्। अधुना समयः आगतः यत् उभे राष्ट्रे संवादेन, परामर्शेन तथा सहयोगेन लघु-विवादान् समाधाय समृद्धेः मार्गेण सह गच्छेयाताम्।
लामिछाने उक्तवान् यत् तस्य भारत-भ्रमणस्य उद्देश्यं नेपालस्य विकासाय सहयोग-अवसराणां अन्वेषणम् अस्ति। आरएसपी-नेतृत्वाधीन-सर्वकारस्य प्रारम्भिक-दिनानि सन्ति तथा अद्यापि बहूनि महत्त्वपूर्ण-कार्याणि सम्पन्नानि कर्तव्यानि सन्ति।
सः अवदत् यत् कदाचित् सर्वकारस्य विषये विविधाः दुष्प्रचारा: प्रसारिताः भवन्ति, किन्तु तासु ध्यानं न दातव्यम्। तेषां सर्वकारः पूर्ण-निष्ठया प्रतिबद्धतया च राष्ट्रस्य विकासाय कार्यं करोति।
अन्ते सः उक्तवान्— “वयं पद-विभाजनाय न आगताः, अपितु राष्ट्रस्य भाग्य-परिवर्तनाय आगताः। मार्गः कठिनः भवेत्, तथापि असम्भवः नास्ति। सहस्र-योजन-दीर्घा यात्रापि एकेन पदेन एव आरभ्यते।”
Hindusthan Samachar / Divya Ranjan