Enter your Email Address to subscribe to our newsletters

-वर्षद्वये पूर्णे मुख्यमंत्रिणा राज्यस्य जनतायै उक्तः आभारःभुवनेश्वरम्, 04 जूनमासः (हि.स.)।ओडिशाराज्यस्य मुख्यमन्त्रिणा मोहनमाझिना जूनमासस्य चतुर्थदिवसः राज्यस्य राजनैतिकइतिहासे महत्त्वपूर्णः गौरवपूर्णश्च दिवसः इति कथयित्वा प्रदेशवासिनां प्रति कृतज्ञता व्यक्तिता।
मुख्यमन्त्रिणा उक्तं यत् द्विवर्षपूर्वम् अस्मिन्नेव दिने ओडिशाराज्यस्य जनतया परिवर्तनस्य सङ्कल्पं स्वीकृत्य भारतीयजनतापक्षस्य समर्थनार्थं ऐतिहासिकः स्पष्टश्च जनादेशः प्रदत्तः आसीत्। मुख्यमन्त्रिणा सामाजिकमाध्यमेषु प्रकाशिते सन्देशे उक्तं यत् जनतायाः एषः पवित्रः जनादेशः न केवलं सशक्तशासनस्य गठनस्य मार्गं प्रशस्तवान्, अपितु दीर्घकालात् प्रवर्तमानां स्थिरतां जडतां च समाप्त्य स्वच्छस्य समृद्धस्य प्रगतिशीलस्य च ओडिशाराज्यस्य निर्माणार्थं दृढाधारशिलामपि स्थापितवान्।
तेन उक्तं यत् प्रधानमन्त्रिणो नरेन्द्रमोदिनः सेवा, सुशासनम्, दरिद्रकल्याणम् इत्येतेषां आदर्शानां प्रेरणया राज्यस्य द्वियन्त्रशासनेन गतद्विवर्षयोः केन्द्रराज्यशासनयोः समन्वितप्रयत्नानां माध्यमेन ओडिशाराज्ये विकासस्य नूतनयुगस्य प्रारम्भः कृतः अस्ति।
मुख्यमन्त्रिणा उक्तं यत् तस्य शासनं प्रशासनिकपारदर्शिता, उत्तरदायित्वम्, जनकल्याणम् इत्येतानि सर्वोच्चप्राथमिकतारूपेण स्वीकृत्य राज्यस्य प्रत्येकवर्गस्य नागरिकानां सर्वाङ्गीणविकासार्थं पूर्णप्रतिबद्धतया कार्यं करोति। तेन उक्तं यत् जनतायाः अटूटः विश्वासः समर्थनं च शासनस्य सङ्कल्पं अधिकं दृढं करोति।
मोहनमाझिना विश्वासः व्यक्तीकृतः यत् सेवा तथा विकासस्य माध्यमेन ओडिशाराज्यं देशस्य अग्रणीषु राज्येषु समावेशयितुं शासनं निरन्तरं प्रगतिपथे अग्रे गच्छति।
तेन प्रदेशवासिनः आहूताः यत् ते विकसितभारतस्य सह समृद्धओडिशानिर्माणस्य अस्मिन् अभियाने सहभागिनः भवेयुः तथा राज्यं विकासस्य समृद्धेश्च नूतनशिखरपर्यन्तं नेतुं स्वयोगदानं दद्युः।
----
Hindusthan Samachar / Dheeraj Maithani