Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 04 जूनमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी श्वः (५ जून) गुजरातराज्यस्य दमनस्य च भ्रमणं करिष्यन्ति। अस्मिन् अवसरे ते गुजरातस्य सुरतनगरे प्रायः १८,८०० कोटिरूप्यकाणां तथा दमने प्रायः २,९७० कोटिरूप्यकाणां विविधविकासपरियोजनानां उद्घाटनं, शिलान्यासं लोकार्पणं च करिष्यन्ति। एतदतिरिक्तं प्रधानमन्त्री लक्षद्वीपस्य कृते ८८५ कोटिरूप्यकाणां मूल्यानां बन्दरगाहपरियोजनानाम् आधारशिलामपि स्थापयिष्यन्ति।
प्रधानमन्त्रीकार्यालयेन अद्य सूचितं यत् ते श्वः अपराह्णे प्रायः द्वितीयवादनार्धे सुरतजनपदस्य हजीराक्षेत्रं गत्वा तत्र प्रचलन्तीनाम् औद्योगिकक्रियाणाम् आधारभूतसंरचनापरियोजनानां च समीक्षां करिष्यन्ति। ततः परं ते मार्ग, ऊर्जा तथा औद्योगिकक्षेत्रसम्बद्धानां १८,८०० कोटिरूप्यकाधिकमूल्यानां परियोजनानां लोकार्पणं शिलान्यासं च करिष्यन्ति तथा जनसभां सम्बोधयिष्यन्ति।
सुरतनगरे प्रधानमन्त्री वडोदरा-मुम्बई अष्टमार्गीयनियन्त्रितप्रवेशद्रुतमार्गस्य पैकेज-६ तथा पैकेज-७ राष्ट्राय समर्पयिष्यन्ति। सहैव ते राष्ट्रियराजमार्गस्य-५६ महत्त्वपूर्णभागानां चतुर्मार्गीयविस्तारपरियोजनायाः आधारशिलां स्थापयिष्यन्ति। अनेन जनजातीयक्षेत्राणां सम्पर्कव्यवस्था सुदृढा भविष्यति तथा स्टैच्यू ऑफ यूनिटी इत्यत्र गमनम् अधिकं सुकरं भविष्यति।
अस्मिन् अवसरे प्रधानमन्त्री सुरतनगरे द्विशतशय्यायुक्तस्य ईएसआईसी चिकित्सालयस्य उद्घाटनमपि करिष्यन्ति। अस्मिन् चिकित्सालये विविधविशेषज्ञचिकित्सासेवाभिः सह केन्द्रीयप्रयोगशाला तथा चतुर्विंशतिघण्टात्मकम् आपत्कालीन-आघातचिकित्सासुविधा उपलब्धा भविष्यति। एतदतिरिक्तं ते अन्तर्राज्यीयविद्युत्पारेषणप्रणाल्याः अन्तर्गतं गुजरातस्य पारेषणजालविस्तारपरियोजनायाः उद्घाटनं करिष्यन्ति। वलसाडक्षेत्रे विद्युत्वितरणप्रणाल्याः उन्नयनम्, दहेज पेट्रोलियम-रसायन तथा पेट्रो-रसायन निवेशक्षेत्रे, सरीगाम औद्योगिकविकासनिगमे च अपशिष्टनिस्तारण-शोधनाधारभूतसंरचनायाः तथा जम्बूसर बल्क ड्रग पार्कस्य उपयोगितापरियोजनानामपि उद्घाटनं करिष्यन्ति।
ततः परं ते दमनं गत्वा सायं प्रायः षड्वादनपञ्चदशमिनिटे विमानस्थानकस्य नूतनटर्मिनलभवनस्य उद्घाटनं करिष्यन्ति तथा नमो चिकित्सालयं राष्ट्राय समर्पयिष्यन्ति। ततः परं ते प्रायः २,९७० कोटिरूप्यकाणां विविधविकासपरियोजनानाम् उद्घाटनं, लोकार्पणं शिलान्यासं च करिष्यन्ति।
दमने प्रायः १,३४० कोटिरूप्यकाणां परियोजनाः राष्ट्राय समर्पिताः भविष्यन्ति, येषु नमो विमानस्थानकस्य नूतनटर्मिनलभवनं तथा नमो चिकित्सालयः प्रमुखौ स्तः। नूतनं टर्मिनलभवनं प्रादेशिकविमानसम्पर्कं सुदृढं करिष्यति, यदा चिकित्सालयः प्रतिदिनं प्रायः १,५०० बहिरङ्गरोगिभ्यः सेवाः प्रदातुं समर्थः भविष्यति।
प्रधानमन्त्री प्रायः १,६३० कोटिरूप्यकाणां परियोजनानाम् आधारशिलामपि स्थापयिष्यन्ति। एतासु प्रतिष्ठितसेतुः (आइकॉनिक ब्रिज), दमन कन्वेन्शन सेन्टर तथा राष्ट्रीयवस्त्रप्रौद्योगिकीसंस्थानस्य परिसरः प्रमुखाः सन्ति। एताभिः परियोजनाभिः पर्यटनस्य, निवेशस्य, रोजगारस्य तथा आधारभूतसंरचनायाः संवर्धनं भविष्यतीति अपेक्षा अस्ति।
ते लक्षद्वीपस्य कृते ८८५ कोटिरूप्यकाणां चतसृणां महत्त्वपूर्णबन्दरगाहपरियोजनानाम् आधारशिलामपि स्थापयिष्यन्ति। एतासु कल्पेनी तथा कदमतद्वीपयोः पूर्वीय-पश्चिमीयतटयोः बन्दरगाहसुविधानां विकासः अन्तर्भवति। एतासां बहुउद्देशीयजेटीसंरचनानां निर्माणेन ३०० मीटरपरिमितदीर्घाणां क्रूज-यात्रीपोतानां वर्षपर्यन्तं सञ्चालनं सम्भवं भविष्यति। परियोजनासु यात्री-मालप्रबन्धनम्, मत्स्यप्रसंस्करणम्, इन्धनवितरणम्, हिमपूर्तिः तथा नौकामरम्मतिसुविधादयः अपि विकसिताः भविष्यन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani