प्रधानमन्त्रिणा मोदिना वेनेजुएला-देशस्य कार्यवाहक-राष्ट्रपति-डेल्सी-रोद्रिगेज-इत्यस्याः स्वागतं कृतम्
नवदेहली, ०४ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे नवदेहलीस्थिते हैदराबाद-भवने वेनेजुएला-देशस्य कार्यवाहक-राष्ट्रपतिं डेल्सी रोड्रिगेज स्नेहपूर्वकं स्वागतं कृतवान्। विदेश-मन्त्रालयस्य अनुसारं भाविवार्तालापानां उद्देश्यं सहभागितां सु
प्रधानमंत्री मोदी और वेनेजुएला की कार्यवाहक राष्ट्रपति डेल्सी मौजूद।


नवदेहली, ०४ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे नवदेहलीस्थिते हैदराबाद-भवने वेनेजुएला-देशस्य कार्यवाहक-राष्ट्रपतिं डेल्सी रोड्रिगेज स्नेहपूर्वकं स्वागतं कृतवान्।

विदेश-मन्त्रालयस्य अनुसारं भाविवार्तालापानां उद्देश्यं सहभागितां सुदृढतरं कृत्वा द्विपक्षीय-सम्बन्धानां नूतनां गतिं प्रदातुम् अस्ति। तदतिरिक्तं एतेषु संवादेषु भारत-वेनेजुएला-सम्बन्धानां सर्वेषां पक्षानां विषये चर्चा भविष्यति, तथा ऊर्जा-सुरक्षा, व्यापारः, निवेशः, औषध-उद्योगः, स्वास्थ्य-सेवा, परिवहनं च नवीकरणीय-ऊर्जा इत्यादिषु क्षेत्रेषु सहकारस्य नूतनाः मार्गाः अन्विष्यन्ते।

डेल्सी-रोड्रिगेज ०३ जूनमासतः ०७ जूनमासपर्यन्तं भारत-यात्रायां स्थितवती अस्ति। सा पूर्वं विदेशमन्त्री उपराष्ट्रपतिः सत्यपि बहुवारं भारतं आगता, एषा तस्याः षष्ठीतमी भारत-यात्रा अस्ति।

Hindusthan Samachar / Divya Ranjan