Enter your Email Address to subscribe to our newsletters

गांधीनगरम्, ०४ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी ०५ जूनमासे विश्व-पर्यावरण-दिवसस्य अवसरं दृष्ट्वा गुजरात-राज्यं गमिष्यति। तस्मिन् अवसरे सः दक्षिण-गुजराताय १२,४२१-करोड़-रूप्यक-मूल्य-राष्ट्रीय-राजमार्ग-परियोजनानां उपहारं दास्यति।
राज्य-सूचना-विभागस्य अनुसारं सः ७,६८९-कोटि-रूप्यक-मूल्येन निर्मितयोः वडोदरा–मुंबई-एक्सप्रेसवे-मार्गस्य कीम-एना (३६ कि.मी.) तथा गणदेवा-एना (२७.५ कि.मी.) खण्डयोः उद्घाटनं करिष्यति। एतेषां मार्गाणां उद्घाटनेन दक्षिण-गुजरातस्य सम्पर्क-व्यवस्था सुदृढा भविष्यति, माल-परिवहनं तीव्रं भविष्यति तथा औद्योगिक-परिवहन-व्ययः न्यूनीभविष्यति।
तदतिरिक्तं राष्ट्रीय-राजमार्ग-५६ अन्तर्गतयोः धमासिया–बिटाड़ा तथा नसारपोर–मलोथा खण्डयोः चतुर्लेनीकरण-कार्यस्य शिलान्यासः अपि क्रियते, यस्य मूल्यं ४,७३२-कोटि-रूप्यकाणि अस्ति। एतेन नर्मदा, तापी, वलसाड तथा छोटा उदेपुर इत्यादयः जनजातीय-जनपदा: तथा स्टैच्यू ऑफ यूनिटी-क्षेत्रं प्रति आवागमनं सुगमं भविष्यति।
हजीरा-क्षेत्रे राष्ट्रीय-राजमार्ग-५३ उपरि प्रायः १४९-कोटि-रूप्यक-मूल्येन षट्-लेन-फ्लाईओवर-तथा वाहन-अण्डरपास-निर्माणस्य आरम्भः अपि भविष्यति। एतेन हजीरा-बन्दरगाह-औद्योगिक-क्षेत्रयोः भारी-वाहनानां संचरणं सुकरं भविष्यति तथा यातायात-सम्मर्द-समस्या न्यूनीभविष्यति।
एतेषां परियोजनानां माध्यमेन दक्षिण-गुजरातस्य सम्पर्क-व्यवस्था सुदृढा भूत्वा व्यापारः, उद्योगः, पर्यटनं तथा क्षेत्रीय-विकासः नूतनां गतिं प्राप्स्यति।
Hindusthan Samachar / Divya Ranjan