Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 04 जूनमासः (हि.स.)।
भीषणे ग्रीष्मतापे पक्षिणां रक्षणं प्रदातुं राष्ट्रपतिभवने, अमृतोद्याने तथा अन्येषु परिसरेषु जलपात्राणि स्थापितानि सन्ति। राष्ट्रपतिः अवदत् यत् एतानि जलपात्राणि पक्षिभ्यः बहु राहतिं प्रददति। राष्ट्रपतिः द्रौपदी मुर्मुः गुरुवासरे स्वस्य आधिकारिके एक्स्-हैण्डले विडियोम् प्रकाशितवती तथा एतस्याः पहलायाः प्रशंसां कृतवती। अस्मिन् विडियोे पक्षिणः जलं पिबन्तः दृश्यन्ते। राष्ट्रपतिः जनसामान्यान् प्रकृतेः जीवजन्तूनां च प्रति संवेदनशीलाः भवितुम् अप्रत्यक्षरूपेण आहूतवती।
राष्ट्रपतिः भीषणग्रीष्मस्य मध्ये पक्षिणां कृते क्रियमाणानां प्रयासानां प्रशंसां कुर्वन्ती, तान् संवेदनशीलतायाः तथा प्रकृतेः प्रति सामञ्जस्यस्य उदाहरणम् इति उक्तवती। सा अवदत् यत् अस्मिन् कठिने ऋतौ अमृतोद्याने राष्ट्रपतिभवनस्य अन्येषु स्थानेषु च पक्षिणां कृते स्थापितानि जलपात्राणि तेषां राहतिं विश्रान्तिं च प्रददति।
सा अवदत् यत् एषः लघुः प्रयासः अस्ति, यः जीवजन्तुषु करुणां तैः सह सामञ्जस्यपूर्णसहअस्तित्वस्य भावनां च प्रदर्शयति।
सा अपि अवदत् यत् एतादृशानि सरलानि पदानि पर्यावरणसंरक्षणस्य मानवीयमूल्यानां च सुदृढीकरणे महत्त्वपूर्णां भूमिकां निर्वहन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani