प्रधानमन्त्री मोदी-महाभागेन जीवनस्य ऊर्जस्वलतायै योगस्य नियमिताभ्यासस्य परामर्शः प्रदत्तः
नवदेहली, ०४ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी-महाभागस्य योगं प्रति अनुरागः वर्तते। योगाभ्यासः तस्य दैनिकदिनचर्यायाः अपि प्रमुखः अंशः अस्ति। तस्य मतम् अस्ति यत् नियमितयोगाभ्यासेन मनुष्यः सदैव ऊर्जस्वलः भवितुमर्हति। अद्य तेन ‘एक्स्’ माध्यमे
db484a989b9a50aa6ab20dc6df8020d6_2044475024.jpg


नवदेहली, ०४ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी-महाभागस्य योगं प्रति अनुरागः वर्तते। योगाभ्यासः तस्य दैनिकदिनचर्यायाः अपि प्रमुखः अंशः अस्ति। तस्य मतम् अस्ति यत् नियमितयोगाभ्यासेन मनुष्यः सदैव ऊर्जस्वलः भवितुमर्हति। अद्य तेन ‘एक्स्’ माध्यमे एतत्सम्बद्धं सुभाषितम्—

योगेन चित्तस्य पदेन वाचांमलं शरीरस्य च वैद्यकेन।योऽपाकरोत्तं प्रवरं मुनीनांपतञ्जलिं प्राञ्जलिरानतोऽस्मि॥

—सहभागकृत्य महर्षेः पतञ्जलेः स्तुतिः कृता।

प्रधानमन्त्री अलिखत्— “योगस्य नियमिताभ्यासः शरीरं निरामयं मनश्च शान्तं धारयति। एतस्य दिनचर्यायां समावेशेन जीवनं सन्तुलितम् ऊर्जस्वलं च भवति।”

उल्लेखनीयम् अस्ति यत् एतस्य सुभाषितस्य पाठः योगसाधनायाः आरम्भात् पूर्वं मनसः स्थैर्यं कृतज्ञतां च व्यक्तुं गीयते।

अस्मिन् मन्त्रे महर्षिः पतञ्जलिः मानवजातेः त्रिविधानां प्रमुखदुःखानां—मानसिकानां, वाचिकानां तथा शारीरिकानाम् अशुद्धीनाम्—अपाकर्ता इति मत्वा प्रणम्यते।

ज्ञातव्यं यत् प्रधानमन्त्री मोदी-महाभागः योगाभ्यासं केवलं व्यायामरूपेण न पश्यति, अपितु समग्रजीवनविज्ञानरूपेण मन्यते। तस्य २०१४ तमस्य वर्षस्य सितम्बरमासे संयुक्तराष्ट्रमहासभायां प्रस्तुतस्य प्रस्तावस्य आधारेण जूनमासस्य २१ दिनाङ्कः अन्ताराष्ट्रिययोगदिवसः इति रूपेण घोषितः आसीत्।

Hindusthan Samachar / Divya Ranjan