भारतस्य कालः आगतः, अस्माभिः स्वकीया सज्जा तीव्रीकरणीया - सङ्घ-प्रमुखः मोहन-भागवतः
नागपुरम्, 04 जूनमासः (हि.स.)।राष्ट्रीय-स्वयंसेवक-सङ्घस्य (आरएसएस) सरसंघचालकः डॉ. मोहनराव-भागवतः गुरुवासरे उक्तवान् यत् भारतस्य कालः आगतः अस्ति तथा च विश्वस्मै नवीनां दिशं दातुं दायित्वं भारतस्य स्कन्धयोः उपरि वर्तते। एतादृशे अस्माभिः स्वं सज्जं कर्
संघ प्रमुख मोहन भागवत


नागपुरम्, 04 जूनमासः (हि.स.)।राष्ट्रीय-स्वयंसेवक-सङ्घस्य (आरएसएस) सरसंघचालकः डॉ. मोहनराव-भागवतः गुरुवासरे उक्तवान् यत् भारतस्य कालः आगतः अस्ति तथा च विश्वस्मै नवीनां दिशं दातुं दायित्वं भारतस्य स्कन्धयोः उपरि वर्तते। एतादृशे अस्माभिः स्वं सज्जं कर्तुं गतिः तीव्रीकरणीया भविष्यति। अस्मिन्नेव सन्दर्भे सः सङ्घं केवलं दूरात् दर्शनात् अथवा दर्शकः भूत्वा स्थानात् अपसृत्य अन्तः आगत्य सङ्घम् अवगन्तुम् आह्वानं कृतवान्। सहैव सः उक्तवान् यत् समाजाय राष्ट्राय च निःस्वार्थ-भावेन कार्यं कुर्वतां समीपे अस्माकं कार्यकर्तारः स्वयमेव प्राप्स्यन्ति। सः उक्तवान् यत् हिन्दू-समाजस्य सङ्गठित-शक्त्या एव भारत-राष्ट्रस्य उद्धारः भविष्यति।

​नागपुरस्य रेशिमबाग-क्रीडाङ्गणे राष्ट्रीय-स्वयंसेवक-सङ्घस्य (आरएसएस) कार्यकर्ता-विकास-वर्ग-द्वितीयस्य सार्वजनिक-समापन-समारोहे कार्यकर्तॄन् समाजस्य जनान् च सम्बोधयन् सः एतत् आह्वानं कृतवान्। समारोहे मुख्य-अतिथित्वेन आदित्य-बिरला-समूहस्य अध्यक्षः कुमार-मङ्गलम्-बिरला सम्मिलितः अभवत्। सम्बोधनात् पूर्वं शिक्षार्थिभिः अनेक-प्रकारकाणि शारीरिक-प्रदर्शनानि कृतानि।

​अस्मिन् अवसरे स्वकीय-सम्बोधने डॉ. मोहन-भागवतः उक्तवान् यत् वर्तमान-विश्वं सङ्घर्षस्य, स्वार्थस्य, असन्तुलित-विकासस्य च आह्वानैः सह युध्यते। एतादृशे समये मानवाय भारतस्य जीवन-दर्शनस्य मूल्यानां च आवश्यकता वर्तते। भारते विश्वगुरुः भवितुं सामर्थ्यम् अस्ति, किन्तु एतदर्थं समाजं सज्जं कर्तुं गतिः वर्धनीया भविष्यति। सः उक्तवान्, “परिस्थितीः स्वस्य अनुकूलाः कर्तुं सामर्थ्यं तेष्वेव जनेषु भवति ये पूर्वतः एव सज्जां कुर्वन्ति।”

​सङ्घ-प्रमुखः उक्तवान् यत् व्यक्तेः स्वतन्त्रतां, समाजस्य स्वतन्त्रतां, सृष्टेः संरक्षणं च सहैव नीत्वा चलनस्य विचारः भारतस्य विशेषता अस्ति। विश्वस्य अनेके देशाः एतान् पक्षान् पृथक्-पृथक् रूपेण अवगच्छन्ति, किन्तु समग्रः दृष्टिकोणः केवलं भारतस्य पार्श्वे एव अस्ति। सः बलं दत्त्वा उक्तवान् यत् भारतं विश्वस्य मार्गदर्शनं अन्येषामं अनुकरणं कृत्वा न, अपितु स्वकीय-सभ्यतायाः, संस्कृतेः, मूल्यानां च आधारेण करिष्यति।

​सहस्र-वर्षाणां दासतायाः उल्लेखं कुर्वन् सः उक्तवान् यत् यैः भारतस्य उपरि शासनं कृतम्, ते कस्यापि दृष्ट्या भारतीय-समाजात् श्रेष्ठाः न आसन्, अपितु निकृष्टाः (बदतर) एव आसन्। समाजस्य कासाञ्चित् दुर्बलतानां कारणात् अस्माभिः दासतायाः कालात् गन्तव्यम् अभवत्। अस्माद् एव अनुभवात् सङ्घेन एतादृशी कार्यपद्धतिः विकसिता, यस्याः माध्यमेन विविधताभिः पूर्णं हिन्दू-जगतं (हिन्दू-समाजं) एकत्रीकर्तुं शक्येत।

​डॉ. भागवतः उक्तवान् यत् विश्वं मन्यते यत् सर्वान् सहैव नीत्वा सञ्चलनस्य भारतीय-दृष्टिकोणः समीचीनः अस्ति किन्तु चलनानुसारं तस्य एव भवति यस्य पार्श्वे शक्तिः अस्ति। अतः भारतस्य दायित्वं वर्तते यत् तत् शक्ति-सम्पन्नं भवेत्। ‘विश्व-बन्धुत्वम्’ तथा ‘वसुधैव कुटुम्बकम्’ इति भारतस्य मूलां भावनां वर्णयन् सः उक्तवान्, “वयं पश्यामः यत् बल-सम्पन्नाः देशाः मनमानीं कुर्वन्ति। चेत् किमपि देशं ग्रहीतुं (हर्तुं), चेत् कस्मिंश्चित् देशे बम-प्रहारं कर्तुं वा जगतः तैलस्य प्रदायम् अवरोध्दुं शक्नुवन्ति। भारतस्य विषये एषः विचारः भवेत् यत् तत् शक्ति-सम्पन्नं भूत्वा एवं न करिष्यति अपितु सर्वान् सहैव नेष्यति।”

​सः उक्तवान् यत् सङ्घः एतादृशानां कार्यकर्तॄणां निर्माणं कर्तुम् इच्छति ये स्वार्थात् भेदभावात् च उपरि उत्थाय समाजाय राष्ट्राय च कार्यं कुर्युः। सः विश्वासं प्रकटितवान् यत् स्वामी-विवेकानन्दस्य भारतस्य पुनरुत्थानस्य स्वप्नः अग्रे द्वित्रेषु वर्षेषु साकारः भवन् द्रक्ष्यते।

​प्रसिद्धः उद्योगपतिः कुमार-मङ्गलम्-बिरला भारतस्य प्रगतौ राष्ट्रीय-स्वयंसेवक-सङ्घस्य (आरएसएस) महत्त्वपूर्णं भूमिकाम् अप्रशंसत् उक्तवान् च यत् सङ्गठनेन समाजाय दिशं दातुं कार्यं कृतम्। सः उक्तवान् यत् वर्तमान-समयः भारतस्य अस्ति अस्माकं कृते च अनेकान् अवसरान् आनयत्। सः देशस्य युवभ्यः अमृत-कालस्य उपयोगं भारतं नूतन-शिखराणि यावत् प्रापयितुम् आह्वानं कृतवान्।

​सः उक्तवान् यत् तेन अनेकेषु अवसरेषु सरसङ्घचालकेन मोहन-भागवतेन सह मिलितुम् अवसरः प्राप्तः। तस्य चिन्तनेन सः प्रभावितः अभवत् सङ्घं च अन्तः ज्ञातुं तस्य अनुरोधस्य अन्तर्गतं सः अद्य अत्र आगतः अस्ति।

​स्वकीय-सम्बोधने सः वैश्विक-सङ्कटस्य अपि उल्लेखं कृतवान् उक्तवान् च यत् प्रधानमन्त्रिणः विकसित-भारतस्य लक्ष्यं प्राप्तुं देशाय स्वा राष्ट्रीय-क्षमता नमनशीलतां च सुदृढं कर्तव्यं भविष्यति। अपक्व-तैलस्य मूल्यानां, वैश्विक-आपूर्ति-शृङ्खलायाम् अवरोधस्य तथा कृत्रिम-बुद्धिमत्ता सदृशीनां चुनौतीनां उल्लेखं कुर्वन् सः उक्तवान् यत् भारतं भविष्यस्य आवश्यकतानां अनुरूपं सज्जं भवितव्यं भविष्यति।

​आदित्य-बिरला-समूहस्य कार्याणां आरएसएस-संस्थया सह तुलनां कुर्वन् सः एतद् अपि ज्ञापितवान् यत् कथं समूहः शिक्षा, स्वास्थ्य, सेवा-क्षेत्रेषु कार्यं करोति।

---------------------

Hindusthan Samachar / अंशु गुप्ता