‘द-नर्मदा-स्टोरी’ चलचित्रस्य सफलतायै महाकालस्य शरणं गतः रघुवीर-यादवः
उज्जयिनीनगरम्, ०४ जूनमासः (हि.स.)। अग्रिम-हिन्दी-चलच्चित्रस्य ‘द-नर्मदा-स्टोरी’ इत्यस्य सफलतायाः कामनया राष्ट्रीय-पुरस्कार-विजेता अभिनेता रघुवीर-यादवः गुरुवासरे उज्जयिन्यां स्थितं श्री-महाकालेश्वर-मन्दिरम् आगतः। तेन सह चलचित्रस्य अभिनेता शरद-सिंहः
रघुवीर यादव - फोटो सोर्स एक्स


उज्जयिनीनगरम्, ०४ जूनमासः (हि.स.)। अग्रिम-हिन्दी-चलच्चित्रस्य ‘द-नर्मदा-स्टोरी’ इत्यस्य सफलतायाः कामनया राष्ट्रीय-पुरस्कार-विजेता अभिनेता रघुवीर-यादवः गुरुवासरे उज्जयिन्यां स्थितं श्री-महाकालेश्वर-मन्दिरम् आगतः। तेन सह चलचित्रस्य अभिनेता शरद-सिंहः अपि उपस्थितः आसीत्। उभावपि कलाकारौ श्री-महाकालेश्वर-ज्योतिर्लिङ्गे विधिपूर्वकं पूजनम् अर्चनां च कृत्वा चलचित्रस्य सफलतायै दर्शकाणां स्नेह-प्राप्तये च प्रार्थनां कृतवन्तौ।

अस्मिन् अवसरे उभावपि चलचित्रस्य सामाजिक-सन्देशस्य मध्यप्रदेश-आधारित-कथावस्तुनः च विषये स्वीयाम् उत्सुकतां व्यक्तवन्तौ।

निर्देशकस्य ज़ैगम-इमामस्य निर्देशनाधीने निर्मितं ‘द-नर्मदा-स्टोरी’ इति चलचित्रम् एकं भावनाप्रधानं अपराध-नाटकम् अस्ति, यत् आदिवासी-मातुः संघर्षस्य साहसस्य च कथां प्रदर्शयति। चलचित्रे दर्शितम् अस्ति यत् कथमेका माता स्वपुत्रीं अपराधिनां पाशात् रक्षितुं सर्वाः कठिनताः साहसेन सम्मुखीकरोति। अस्य संघर्षस्य काले महिला-उपनिरीक्षिका नर्मदा-रैकवार: तस्याः साहाय्यं करोति, यस्याः पात्रं भारतीय-आरक्षक-सेवायाः अधिकारिण्या सिमाला-प्रसादेन अभिनीतम् अस्ति।

चलच्चित्रं महिला-सशक्तीकरणस्य, सामाजिक-न्यायस्य तथा आरक्षक-व्यवस्थायां महिलानां महत्त्वपूर्ण-भूमिकायाः सशक्तं सन्देशं ददाति।

अस्य चलचित्रस्य चित्राङ्कनं मध्यप्रदेशस्य नर्मदापुरम्-क्षेत्रे तदुपकण्ठेषु च सम्पन्नम्, येन स्थानीय-संस्कृतिः, प्राकृतिक-सौन्दर्यम् तथा जनजीवनं यथार्थरूपेण प्रस्तोतुं शक्येत।

महाकाल-दर्शनानन्तरं रघुवीर-यादवः अवदत् यत् एतत् चलचित्रं मध्यप्रदेशस्य मृत्तिकायाः तथा अत्रत्य-जनानां संघर्षपूर्ण-जीवनस्य कथा अस्ति, या पूर्ण-निष्ठया निर्मिता। शरद-सिंहः अपि एतत् चलचित्रं स्वराज्यस्य पृष्ठभूमौ निर्मितां प्रेरणादायिनीं कृतिम् इति वर्णयन् अवदत् यत् एषा कथा साहसस्य, न्यायस्य तथा महिला-सशक्तीकरणस्य सन्देशं प्रसारयति।

चलच्चित्रे रघुवीर-यादवः, मुकेश-तिवारी, शरद-सिंहः तथा इश्तियाक-खानः प्रमुख-भूमिकासु दृश्यन्ते।

Hindusthan Samachar / Divya Ranjan