प्रतिकूल-आकाशीय-स्थितेः कारणात् राहुल-गान्धी अल्मोड़ा-नगरं न प्राप्तवान्, दूरभाष-माध्यमेन सभां सम्बोधितवान्
अल्मोडानगरम्, ०४ जूनमासः (हि.स.)। क्षेत्रे प्रतिकूल-आकाशीय-स्थितेः कारणात् लोकसभायां विपक्ष-नेता तथा कांग्रेस-सांसदः राहुल गांधी गुरुवासरे अल्मोड़ा-नगरं न प्राप्तवान्, सः दूरभाष-माध्यमेन जनसभां सम्बोधितवान्। कांग्रेस-दलस्य “परिवर्तनस्य शंखनादः” इत
फोन पर राहुल का संदेश सुनाती कांग्रेस प्रदेश प्रभारी शैलेजा


अल्मोडानगरम्, ०४ जूनमासः (हि.स.)। क्षेत्रे प्रतिकूल-आकाशीय-स्थितेः कारणात् लोकसभायां विपक्ष-नेता तथा कांग्रेस-सांसदः राहुल गांधी गुरुवासरे अल्मोड़ा-नगरं न प्राप्तवान्, सः दूरभाष-माध्यमेन जनसभां सम्बोधितवान्।

कांग्रेस-दलस्य “परिवर्तनस्य शंखनादः” इति कार्यक्रमस्य अन्तर्गतं अल्मोड़ा-नगरस्य सिमकनी-स्थिते एसएसजे-विश्वविद्यालयस्य क्रीडांगणे तस्य जनसभायाः आयोजनं कृतम् आसीत्। कार्यक्रम-स्थले बहवः जनाः समागताः आसन्, किन्तु ऋतु-वैषम्येन पन्तनगरात् तस्य हेलिकॉप्टरविमानं न उड्डीयमानम् अभवत्। ततः प्रदेश-प्रभारिण्या शैलजा इत्यस्याः माध्यमेन राहुल-गान्धी दूरभाषेण सभां सम्बोधितवान्।

पूर्वं जनसभां कांग्रेस-प्रदेश-प्रभारिणी शैलजा, पूर्व-मुख्यमन्त्री हरीश-रावतः, विधानसभा-विपक्ष-नेता यशपाल-आर्यः, उपनेता भुवन-कापड़ी, प्रदेशाध्यक्षः गणेश-गोदियालः, विधायकाः मनोज-तिवारी, हरीश-धामी, सुमित-हृद्येशः, पूर्व-विधायकः गोविन्द-सिंह-कुंजवालः, पूर्व-सांसदः प्रदीप-टम्टा, राजकुमार-ठुकरालः, प्रकाश-जोशी, तथा जनपद-अध्यक्षः भूपेन्द्र-भोजः इत्यादयः पदाधिकारिणः कार्यकर्तारश्च सम्बोधितवन्तः।

/ अंशु गुप्ता