मुख्यमंत्रिणो याेगिनः प्रयत्नेन 48 वर्षोत्तरं संभलस्य आतंकपीडितपरिवारेभ्यः मिलिताः भूखंडाः, प्रभारी मंत्री अकरोत् भूमिपूजनम्
-संभले1978तमस्य वर्षस्य सांप्रदायिकांतकिनोऽकुर्वन् थी रामशरण रस्तोगिनो हत्याम्-मुख्यमंत्री याेगी पीड़ित परिवारैस्सह मिलित्वा न्यायं दापयितुन्दत्तं वचनम् संभलम्, 04 जूनमासः (हि.स.)।जनपदे सम्भले उन्नवत्यधिकनवशततमवर्षे जातेषु साम्प्रदायिकदङ्गेषु द
फोटो


फोटो


फोटो


फोटो


-संभले1978तमस्य वर्षस्य सांप्रदायिकांतकिनोऽकुर्वन् थी रामशरण रस्तोगिनो हत्याम्-मुख्यमंत्री याेगी पीड़ित परिवारैस्सह मिलित्वा न्यायं दापयितुन्दत्तं वचनम्

संभलम्, 04 जूनमासः (हि.स.)।जनपदे सम्भले उन्नवत्यधिकनवशततमवर्षे जातेषु साम्प्रदायिकदङ्गेषु दङ्गकारिणां हस्तैः जीवनं नष्टवान्तस्य रामशरणरस्तोगी इत्यस्य परिवारजनान् प्रति गुरुवासरे उत्तरप्रदेशशासनस्य मन्त्री जेपीएसराठौरः सम्भलनगरम् आगत्य भूमिपट्टं समर्पितवान्।

परिवारजनाः शासनस्य पक्षतः पट्टप्राप्तौ मुख्यमन्त्रिणः योगीआदित्यनाथस्य प्रति कृतज्ञतां प्रकटितवन्तः।

वास्तवतः उन्नवत्यधिकनवशततमवर्षे सम्भले साम्प्रदायिकदङ्गेषु रामशरणरस्तोगी इत्यस्य हत्या कृता। ततः तस्य शरीरं विकृत्य कूपे क्षिप्तम्। गतवर्षे तस्य पौत्रः कपिलरस्तोगी स्वमात्रा सह उत्तरप्रदेशस्य मुख्यमन्त्रिणः योगीआदित्यनाथस्य समीपं गत्वा न्यायस्य याचनां कृतवान्। ततः मुख्यमन्त्री योगीआदित्यनाथः पीडितपरिवारस्य पुनर्वासार्थं भूमिप्रदानस्य आश्वासनं दत्तवान्। अस्मात् पूर्वं विधानसभायां मुख्यमन्त्री योगी सम्भले चतुरशीत्यधिकशतहिन्दूनां नृशंसहत्यायाः सम्पूर्णं घटनाक्रमम् अपि निरूपितवान्।

अनन्तरं प्रशासनद्वारा मृतकस्य रामशरणरस्तोगी इत्यस्य पुत्रवधू रुक्मनरस्तोगी इत्यस्यै गुरुवासरे ग्रामे शेरखांसराय बहिः चुङ्गीक्षेत्रे शतवर्गमीटरपरिमिता आवासीयभूमिः पट्टरूपेण आवण्टिता। तस्य प्रमाणपत्रं प्रदेशशासने सहकारिताराज्यमन्त्री तथा जनपदस्य प्रभारीमन्त्री जेपीएसराठौरः मण्डलायुक्तस्य आनञ्जेन्यकुमारस्य, जिलाधिकारिणः अङ्कितखण्डेलवालस्य तथा पुलिसाधीक्षकस्य कृष्णकुमारबिश्नोई इत्यस्य उपस्थितौ रस्तोगीपरिवारजनान् प्रति समर्पितवान्। सहैव भूमेः स्वामित्वहस्तान्तरणं कृत्वा प्रभारीमन्त्रिणा भवननिर्माणस्य प्रथमेष्टका अपि स्थापिता।

अस्मिन् अवसरे सम्भलस्य प्रभारीमन्त्री राठौरः अवदत् यत् उन्नवत्यधिकनवशततमवर्षस्य दङ्गेषु शताधिकजनानां मृत्युः अभवत् इति अस्माकं कृते अत्यन्तं दुर्भाग्यपूर्णा स्थितिः अस्ति। तेषां गृहाणि दग्धानि। अस्याः भूमेः अपवित्रीकरणस्य कार्यम् अत्र अभवत्। अत्र जनानां प्रति अत्याचाराः कृताः। जनाः स्वगृहाणि त्यक्त्वा अन्यत्र गतवन्तः। तेषां पुनः निवासव्यवस्थार्थं मुख्यमन्त्रिणः आदेशेन प्रत्येकस्मै शतवर्गमीटरपरिमितः भूमिपट्टः प्रदीयते। अन्येषाम् अपि एतादृशानां जनानां पुनरागमनार्थं शासनं प्रयतते।

मृतकस्य रामशरणरस्तोगिनः पौत्रः कपिलरस्तोगी अवदत् यत् उन्नवत्यधिकनवशततमवर्षस्य मार्चमासस्य नवविंशतितमे दिने मम पितामहः रामशरणरस्तोगी स्वस्य आपणे उपविष्टः आसीत्। तस्मिन् समये दङ्गकारिणां समूहः आपणे लुण्ठनम् अकरोत्। विरोधे कृते दङ्गकारिभिः मम पितामहस्य शरीरे एकोनदशाधिकशतवारं क्षुरिकाप्रहाराः कृत्वा तस्य हत्या कृता। केवलं तावत् न, हत्यां कृत्वा आपणे स्थितेन तुलायन्त्रेण भारकेण च बद्ध्वा तं कूपे क्षिप्तवन्तः।

कपिलरस्तोगी अवदत् यत् द्विसहस्रपञ्चमे वर्षे दङ्गकारिभ्यः न्यायविषयकप्रकरणस्य सम्बन्धेन धमक्यः प्राप्ताः। तस्य कारणेन वयं अत्रतः पलायितवन्तः। अधुना वयं दिल्लीनगरे निवसामः।

पौत्रः कपिलरस्तोगी पुनः अवदत् यत् वयं मुख्यमन्त्रिणः निवासं गत्वा तेन सह भेंटं कृतवन्तः तथा च एकं निवेदनपत्रं समर्प्य साहाय्यं याचितवन्तः। ततः योगीआदित्यनाथेन जिलाप्रशासनाय कार्यवाहीकर्तुं निर्देशः दत्तः। अधुना अस्मभ्यं सम्भले निवासार्थं शेरखांसरायक्षेत्रे शतवर्गमीटरपरिमिता भूमिः पट्टरूपेण प्रदीयते। अनेन भूमिपट्टेन अत्र गृहस्थापनस्य अवसरः प्राप्तः। अस्माकं मनसि एषः भावः जायते यत् अस्माभिः सह अन्ततः न्यायः कृतः। अष्टचत्वारिंशद्वर्षीयदीर्घसंघर्षानन्तरं योगीशासनं तथा जिलाप्रशासनम् अस्मान् स्मृतवन्तौ।

मृतकस्य पुत्रवधू रुक्मनरस्तोगी अवदत् यत् उन्नवत्यधिकनवशततमवर्षस्य दङ्गानन्तरं अस्मभ्यं निरन्तरं धमक्यः प्राप्ताः। तेन वयं पलायनं कर्तुं विवशाः अभवाम। किन्तु अधुना अस्मभ्यं भूमिपट्टः प्राप्तः अस्ति तथा च वयं गृहं निर्माय अत्र निवसितुम् इच्छामः। मुख्यमन्त्रिणः योगीआदित्यनाथस्य तथा सम्भलप्रशासनस्य प्रति बहुधा धन्यवादः।

Hindusthan Samachar / Dheeraj Maithani