सैफमहिलाचैम्पियनशृंखला : भारतं भूटानं पराजित्य अंत्ये निर्मितवत्स्थानम्, अधुना बांग्लादेशेन सह क्रीडासमरः
मडगांवः (गोवा), 04 जूनमासः (हि.स.)।पञ्चवारं विजेता भारतीयमहिलाफुट्बालदलम् सैफमहिलाचैम्पियनशृंखला २०२६ प्रतियोगितायाः द्वितीयसेमिफाइनलस्पर्धायां बुधवासरस्य रात्रौ भूटानदेशं १ ० इति गोलान्तरैः पराजित्य अन्तिमस्पर्धायां प्रवेशं कृतवत्। अधुना स्पर्धाया
गोल करने के बाद खुशी मनातीं सनफिदा नोंगरुम


मडगांवः (गोवा), 04 जूनमासः (हि.स.)।पञ्चवारं विजेता भारतीयमहिलाफुट्बालदलम् सैफमहिलाचैम्पियनशृंखला २०२६ प्रतियोगितायाः द्वितीयसेमिफाइनलस्पर्धायां बुधवासरस्य रात्रौ भूटानदेशं १ ० इति गोलान्तरैः पराजित्य अन्तिमस्पर्धायां प्रवेशं कृतवत्। अधुना स्पर्धायां भारतस्य सामना वर्तमानविजेता बाङ्ग्लादेशदलेन सह शनिवासरे पण्डितजवाहरलालनेहरूक्रीडाङ्गणे भविष्यति।

समूहचरणे द्वयोः स्पर्धयोः १४ गोलान् कृतवत्या भारतीयदलेन एकपक्षीयप्रदर्शनस्य अपेक्षा आसीत् किन्तु भूटानदलेन उत्कृष्टं रक्षात्मकक्रीडाप्रदर्शनं कृत्वा स्पर्धा कठिनतया धारिता। निरन्तरं तृतीयवारं सेमिफाइनलचरणं प्राप्तवती भूटानदलस्य भारतीयआक्रमणं दीर्घकालपर्यन्तं निरुद्धम्।

फीफाक्रमाङ्कने ६९ स्थाने स्थितः भारतदेशः अधिकांशसमये कन्दुकस्य नियन्त्रणं धारितवान् किन्तु प्रथमार्धे गोलं कर्तुं न अशकत्। करिश्मा सौम्या गुगुलोथ तथा अवेका सिंह अवसरान् निर्मितवन्त्यः किन्तु दुर्बलसमापनकौशलात् तथा भूटानदलस्य गोलरक्षिकायाः उत्कृष्टप्रदर्शनात् मध्यविरामपर्यन्तं परिणामः ० ० एव आसीत्।

भूटानदलेन अपि प्रत्याक्रमणे कतिपयान् उत्तमान् अवसरान् निर्मितान् किन्तु तान् गोलरूपे परिणमयितुं न अशकत्।

द्वितीयार्धे निरन्तरभारस्य लाभः भारतदलेन षष्टितमे निमेषे प्राप्तः यदा सनफिदा नोंगरुम गोलं कृत्वा दलं अग्रतां नीतवती। एषः एव गोलः अन्ते निर्णायकः अभवत्।

ततः परं मुख्यप्रशिक्षकेण क्रिस्पिन छेत्री मनीषा कल्याण तथा प्यारी जाक्षा इत्याद्याः अनुभवीक्रीडिकाः क्रीडाक्षेत्रे प्रविष्टाः कृताः किन्तु भारतदलम् अग्रतां वर्धयितुं न अशकत्। अपरतः भूटानदलेन अन्तपर्यन्तं संघर्षः निरन्तरं कृतः तथा भारतीयरक्षापङ्क्तेः सम्मुखे चुनौती प्रस्तुता।

तथापि अतिरिक्तसमयपर्यन्तं स्पर्धां नेतुं आवश्यकः गोलः भूटानदलेन न कृतः तथा भारतदलेन १ ० इति विजयं प्राप्त्वा अन्तिमस्पर्धायां स्थानं सुनिश्चितीकृतम्।

भारतदलम् अधुना २०१९ वर्षात् परं प्रथमवारं सैफमहिलाचैम्पियनशृंखलायाः उपाधिं जेतुं केवलम् एकविजयात् दूरे अस्ति।

अस्मात् पूर्वं प्रथमसेमिफाइनलस्पर्धायां बाङ्ग्लादेशदलेन नेपालदेशः २ १ इति गोलान्तरैः पराजितः तथा निरन्तरं तृतीयवारं अन्तिमस्पर्धायां प्रवेशः प्राप्तः। बाङ्ग्लादेशदलेन २०२२ तथा २०२४ वर्षयोः प्रतियोगिते अपि स्वनाम्नि कृते।

---------------

Hindusthan Samachar / Dheeraj Maithani