Enter your Email Address to subscribe to our newsletters

लखनऊ, 04 जूनमासः (हि.स.)।उत्तरप्रदेशे गुरुवासरे व्यापकस्तरे पुलिसविभागे स्थानान्तरणानि अभवन्। मुख्यमन्त्रिणा योगीआदित्यनाथेन २०६ पीपीएस अधिकारिणां स्थानान्तरणं कृतम्। लखनऊनगरे नियुक्तानां प्रायः द्वादश उपपुलिसाधीक्षकाणाम् अपि स्थानान्तरणं अभवत्।
स्थानान्तरणक्रमे मुख्यमन्त्रिणः सुरक्षायां नियुक्तः पुलिसउपाधीक्षकः जितेन्द्रकुमारद्वितीयः शाहजहांपुरं प्रेषितः। महाराजगञ्जे नियुक्तः अनुरुद्धकुमारः महोबाजनपदं प्रेषितः। अशोककुमारमिश्रद्वितीयः भदोहीतः स्थानान्तरितः भूत्वा त्रिंशद्वाहिनी पीएसी गोण्डायाः सेनानायकपदे नियुक्तः। अभिषेकसिंहः कौशाम्बीतः बलरामपुरं प्रेषितः। अजयकुमारश्रोतियः झांसीतः अमरोहां प्रेषितः। पङ्कजपन्तः शाहजहांपुरतः रामपुरं प्रेषितः। उदयप्रतापसिंहद्वितीयः गोरखपुरतः लखनऊपुलिसकमिश्नरेटे सहायकपुलिसआयुक्तः नियुक्तः।
लखनऊनगरे नियुक्तः सतीशकुमाररायः मेरठनगरे पीएसी षष्ठवाहिन्यां प्रेषितः।
लखनऊनगरे नियुक्तः सहायकपुलिसआयुक्तः अभयकुमारमल्लः बलरामपुरं प्रेषितः। महोबायां नियुक्तः गौरवउपाध्यायः तथा अम्बेडकरनगरे नियुक्तः शुभमकुमारः लखनऊपुलिस-आयुक्तालये सहायकपुलिसआयुक्तपदे नियुक्तौ अभवताम्। मुख्यमन्त्रिसुरक्षाविभागतः वाराणसी-आयुक्तालये प्रेषितः राजेशकुमारसिंहः अधुना लखनऊआयुक्तालये नियुक्तिं प्राप्तवान्।
कासगञ्जे नियुक्ता शाहिदानसरीन लखनऊआयुक्तालये नियुक्ता अभवत्। तथा लखनऊनगरे नियुक्ता शिप्रापाण्डेया डीजीपी मुख्यालये आईजी विधिव्यवस्थाकार्यालये नियुक्ता कृता। अनुष्का लखनऊतः प्रयागराजस्थितां पीएसी चतुर्थवाहिनीं प्रेषिता। सुरेन्द्रशर्मा लखनऊतः बरेलीस्थितां पीएसी अष्टमवाहिनीं प्रेषितः। वीरेन्द्रविक्रमः लखनऊतः कानपुरआयुक्तालये प्रेषितः। अतुलकुमारपाण्डेयः रामपुरतः लखनऊ-आयुक्तालये नूतननियुक्तिं प्राप्तवान्। एवं प्रकारेण अन्येषामपि पुलिसाधिकारिणां स्थानान्तरणानि अभवन्।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani