Enter your Email Address to subscribe to our newsletters

-नीम करोली बाबा सर्किट तथा बुंदेलखंड फोर्ट सर्किट इत्येतयोर्भविष्यति विकासः
लखनऊ, 04 जूनमासः (हि. स.)।
मुख्यमन्त्री योगीआदित्यनाथः उक्तवान् यत् उत्तरप्रदेशः केवलम् आस्थायाः केन्द्रं नास्ति, अपितु भारतस्य सांस्कृतिकचेतनायाः, आध्यात्मिकपरम्परायाः तथा ज्ञानसम्पदः प्रतिनिधिप्रदेशः अस्ति। पर्यटनविकासः केवलम् आधारभूतसंरचनानिर्माणपर्यन्तं सीमितः न भवेत्, अपितु सः सांस्कृतिकपुनर्जागरणेन, स्थानीयार्थव्यवस्थया, रोजगारसृजनेन तथा वैश्विकपरिचयेन सह सम्बद्धः कृत्वा प्रवर्धनीयः।
गुरुवासरे पर्यटनविभागस्य समीक्षां कुर्वन् मुख्यमन्त्री अवदत् यत् उत्तरप्रदेशस्य सांस्कृतिकार्थव्यवस्थायाः नूतनगतिप्रदाने पर्यटनस्य महत्त्वपूर्णा भूमिका अस्ति। पर्यटनविकासस्य माध्यमेन स्थानीयोत्पादानां, हस्तशिल्पानां, पारम्परिककलानां, खाद्यसंस्कृतेः, सांस्कृतिकपरम्पराणां तथा सेवाक्षेत्रस्य अपि व्यापकान् अवसरान्प्राप्स्यन्ति।
भारतीयज्ञानपरम्परासंरक्षणसम्बद्धस्य ज्ञानभारतम् अभियानस्य समीक्षां कुर्वन् मुख्यमन्त्री अवदत् यत् भारतस्य प्राचीनहस्तलिखितग्रन्थाः अस्माकं सभ्यतायाः, दर्शनस्य, विज्ञानस्य तथा सांस्कृतिकचेतनायाः अमूल्यधरोहराः सन्ति। एतेषां संरक्षणं तथा अङ्कीकरणं केवलम् अभिलेखीकरणकार्यं नास्ति, अपितु आगामिपीढीनां स्वमूलैः सह संयोजनस्य माध्यमम् अस्ति। उपवेशने अद्यावधि त्रयोदशलक्षसप्ततिसहस्राधिकहस्तलिखितग्रन्थानां सर्वेक्षणस्य, अङ्कीयीकरणस्य तथा संरक्षणस्य प्रगतिविषये सूचना प्रदत्ता।
पर्यटननीतेः द्विसहस्रद्वाविंशतिवर्षीयप्रस्तावितसंशोधनानां समीक्षायां मुख्यमन्त्री अवदत् यत् उत्तरप्रदेशः निवेशस्य, नवोन्मेषस्य तथा अनुभवादारितपर्यटनस्य अग्रणीकेन्द्ररूपेण विकसितः भवेत्।उपवेशने नीमकरोलीबाबापर्यटनपरिपथस्य तथा बुन्देलखण्डदुर्गपरिपथस्य रूपेण नूतनक्षेत्रविकासस्य विषये चर्चा अभवत्। तेन सह परम्परा धरोहरानुभवकेन्द्रं, कृषिपर्यटनं द्राक्षाक्षेत्रपर्यटनं च इत्यादीनां नूतनधारणानां प्रोत्साहनविषये अपि विचारविमर्शः अभवत्। मुख्यमन्त्री अवदत् यत् पर्यटननीतिः तादृशी भवेत् या निवेशम् आकर्षयेत्, रोजगारम् वर्धयेत् तथा पर्यटकेभ्यः विशिष्टानुभवं प्रदद्यात्।
मुख्यमन्त्री लखनऊनगरे नवसमर्पितस्य नौसेनाशौर्यवाटिकायाः तथा निर्माणाधीनस्य आईएनएस गोमती शौर्यसंग्रहालयस्य समीक्षां कुर्वन् अवदत् यत् एषा परियोजना राष्ट्रभक्तेः, सैन्यगौरवस्य तथा भारतस्य सामुद्रिकधरोहरायाः नूतनसंततिपर्यन्तं प्रसारणस्य महत्त्वपूर्णं साधनं भविष्यति। तेन उक्तं यत् अस्य संचालनं लखनऊविकासप्राधिकरणेन करणीयम्।उपवेशने उक्तं यत् निर्माणाधीने आईएनएस गोमती शौर्यसंग्रहालये भारतीयनौसेनायाः गौरवपूर्णः इतिहासः, सामुद्रिकशक्तिः, नौसैनिककार्यक्रमाः, आईएनएस गोमती इत्यस्य यात्रा, नौसञ्चालनपरम्परा तथा भारतस्य सामुद्रिकधरोहराः आधुनिकप्रौद्योगिक्या, अन्तर्क्रियात्मकदीर्घाभिः, अनुकरणप्रणालीभिः, युवा नौसैनिकप्रशिक्षणमञ्चेन तथा विविधानुभवात्मकप्रदर्शनैः प्रस्तुताः भविष्यन्ति। मुख्यमन्त्री अवदत् यत् एषा परियोजना युवासु राष्ट्रसेवायाः, अनुशासनस्य तथा देशभक्तेः भावनां अधिकं सुदृढां करिष्यति।
आग्रानगरे निर्माणाधीनस्य छत्रपतिशिवाजीमहाराजसंग्रहालयस्य समीक्षां कुर्वन् मुख्यमन्त्री अवदत् यत् राष्ट्रनायकानां प्रेरणादायकगाथानां नूतनसंततिपर्यन्तं प्रसारणं राष्ट्रियकर्तव्यं वर्तते। संग्रहालये छत्रपतिशिवाजीमहाराजस्य जीवनम्, स्वराज्यस्थापनम्, आग्रागमनम्, औरङ्गजेबस्य सभायां तस्य अदम्यसाहसम्, आग्रानगरात् ऐतिहासिकनिर्गमनम्, राज्याभिषेकः, सैन्यनेतृत्वम्, हिन्दवीस्वराज्यम्, दुर्गविकासः तथा सुशासनस्य अवधारणा आधुनिकप्रौद्योगिक्या प्रस्तुताः भविष्यन्ति। मुख्यमन्त्री निर्देशान् दत्तवान् यत् संग्रहालये मराठासाम्राज्यस्य उत्तरप्रदेशस्य च ऐतिहासिकसम्बन्धाः, काशीविश्वनाथमन्दिरस्य पुनरुद्धारे अहिल्याबाईहोल्करस्य भूमिका, तीर्थस्थानसंरक्षणम्, प्रदेशस्य सांस्कृतिकधरोहराः, स्वतन्त्रतासङ्ग्रामस्य नायकाः तथा ब्रजसंस्कृतिः अपि प्रमुखतया प्रदर्श्यन्ताम्।
नैमिषारण्यस्य समग्रविकासस्य समीक्षां कुर्वन् मुख्यमन्त्री अवदत् यत् एतत् केवलं तीर्थस्थानं नास्ति, अपितु भारतस्य वैदिकज्ञानपरम्परायाः, आध्यात्मिकसाधनायाः तथा सांस्कृतिकधरोहरायाः जीवत्केन्द्रम् अस्ति। अस्य विकासे धार्मिकश्रद्धायाः, पर्यावरणसंरक्षणस्य तथा आधुनिकसुविधानां मध्ये समुचितसन्तुलनं सुनिश्चितं करणीयम्।उपवेशने उक्तं यत् समग्रमूलयोजनायाः अन्तर्गतं वेदविज्ञानकेन्द्रम्, वेदारण्यम् स्वास्थ्यकल्याणकेन्द्रम् तथा वैदिकविषयकउद्यानम्, राजघाटनदीतटविकासः, व्यासगद्दी, सूतगद्दी, हनुमानगढी, देवदेवेश्वरमन्दिरपरिसरः, रुद्रावतमन्दिरपरिसरः, नैमिषहाटः, तीर्थयात्रिनिवासः, व्याख्याकरणकेन्द्रम् तथा आधुनिकपर्यटनसुविधानां विकासः प्रस्तावितः अस्ति। एतदपि सूचितं यत् व्याख्याकरणकेन्द्रे नैमिषारण्यस्य वेदानां जन्मस्थलीरूपेण अवधारणा, प्रकाशप्रक्षेपणदर्शनं, प्रकाशप्रदर्शनं, दशावतारदृश्यप्रस्तुतीकरणम् तथा पारम्परिकग्रामजीवनस्य अनुभूतिः प्रदर्शिता भविष्यति। मुख्यमन्त्री निर्देशं दत्तवान् यत् कार्ययोजना अभियानरूपेण शीघ्रतया प्रवर्तनीया।
मिर्जापुरविन्ध्याचलक्षेत्रस्य कृते निर्मीयमाणस्य समन्वितमूलयोजनायाः समीक्षायां मुख्यमन्त्री अवदत् यत् माता विन्ध्यवासिनीधाम देशस्य प्रमुखशक्तिपीठेषु अन्यतमम् अस्ति तथा च अस्य विकासयोजना भविष्यस्य आवश्यकतानां दृष्ट्या निर्मातव्या।उपवेशने त्रिकोणपरिक्रमाक्षेत्रस्य विकासविषये अपि चर्चा अभवत्। एतदपि सूचितं यत् द्विसहस्रपञ्चाशद्वर्षपर्यन्तं सम्भाव्यश्रद्धालुसंख्यां दृष्ट्वा आवश्यकसुविधानां विकासः क्रियते। मुख्यमन्त्री निर्देशान् दत्तवान् यत् प्रदेशस्य शक्तिपीठानां समीपे माता सती इत्यस्याः पौराणिककथायाः प्रभावी आकर्षकप्रस्तुतीकरणं क्रियताम् तथा च अस्य कृते निजीक्षेत्रस्य सहयोगसम्भावनाः अपि उपयुज्यन्ताम्।
उपवेशने चित्रकूटस्थितस्य प्राचीनसोमनाथमन्दिरस्य संरक्षणसंवर्धनकार्याणां अपि समीक्षा कृता। मुख्यमन्त्री अवदत् यत् प्रदेशस्य ऐतिहासिकसांस्कृतिकधरोहराणां संरक्षणम् अस्माकं सामूहिकं दायित्वम् अस्ति। संरक्षणकार्येषु मूलस्वरूपम्, ऐतिहासिकप्रामाणिकता तथा स्थापत्यविशेषताः अक्षुण्णाः स्थाप्य आवश्यकसुविधानां विकासः क्रियताम्, येन आगामिसंततयोऽपि एताभ्यः धरोहराभ्यः प्रेरणां प्राप्तुं शक्नुयुः।
---------------
Hindusthan Samachar / Dheeraj Maithani