नरेन्द्रमोदी-सर्वकारस्य द्वादश-वर्षाणि भारतस्य नवनिर्माणस्य गाथा अस्ति - शशांक: मणि:
देवरियानगरम्, ०४ जूनमासः (हि.स.)। केन्द्रे प्रधानमन्त्री नरेन्द्रमोदी-नेतृत्वाधीन-सर्वकारस्य द्वादश-वर्षाणां पूर्णत्वे गुरुवासरे देवरिया-सदनस्य भाजपा-सांसदः शशांकमणि: नगरस्य गायत्रीपुरम्-क्षेत्रे पक्ष-पदाधिकारिभिः सह प्रबुद्धजनैः सम्पर्कं कृत्वा सर
फोटो


देवरियानगरम्, ०४ जूनमासः (हि.स.)। केन्द्रे प्रधानमन्त्री नरेन्द्रमोदी-नेतृत्वाधीन-सर्वकारस्य द्वादश-वर्षाणां पूर्णत्वे गुरुवासरे देवरिया-सदनस्य भाजपा-सांसदः शशांकमणि: नगरस्य गायत्रीपुरम्-क्षेत्रे पक्ष-पदाधिकारिभिः सह प्रबुद्धजनैः सम्पर्कं कृत्वा सर्वकारस्य उपलब्धीनां विषये संवादं कृतवान्। अस्मिन् अवसरे सः अवदत् यत् मोदी-सर्वकारस्य द्वादश-वर्षाणि भारतस्य नवनिर्माणस्य, विकासस्य तथा आत्मनिर्भरता-प्राप्तेः गाथा अस्ति।

सांसदः अवदत् यत् गत-द्वादश-वर्षेषु देशेन अनेकाः ऐतिहासिक-उपलब्धयः प्राप्ताः। सः उक्तवान् यत् अन्त्योदय-संकल्पस्य कार्यान्वयनेन ८० कोटि-जनानां कृते निःशुल्क-खाद्यान्नम्, १२ कोटि-शौचालयानि, ४ कोटि-आवासाः तथा १० कोटि-उज्ज्वला-गैस-सम्बन्धाः प्रदत्ताः। तथा जल-जीवन-मिशन-अन्तर्गतं कोटिशः गृहाणि नल-जल-योजनया संयोजितानि, आयुष्मान-भारत-योजनया च कोटिशः जनाः स्वास्थ्य-सुरक्षायाः लाभं प्राप्तवन्तः।

सः अवदत् यत् राष्ट्रीय-सुरक्षा, कश्मीरात् अनुच्छेद-३७०-निरसनम्, जी-२०-सफल-आयोजनम् तथा अयोध्यायां राममन्दिर-निर्माणम् अपि अस्याः सर्वकारस्य प्रमुख-उपलब्धयः सन्ति। सः उक्तवान् यत् अद्य भारतं वैश्विक-मञ्चे सशक्त-नेतृत्वस्य भूमिकां निर्वहति।

कार्यक्रमे नगराध्यक्षः रमेश-वर्मा, मीडिया-प्रभारी प्रभाकर-तिवारी, सुधीर-श्रीवास्तव:, नगर-महामन्त्री सुधीर-मधेशिया, कैलाशनाथ-चतुर्वेदी, बी.डी. पाण्डेय:, ओमप्रकाश-सिंह:, आनंद-मणिः, विजय-प्रसादः, देवनन्दन-यादवः, उदयभान-तिवारी च सहिताः अनेकाः प्रबुद्धजनाः भाजपा-कार्यकर्तारः च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan