सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य रोजगारपरक-ऑनलाइन-पाठ्यक्रमेषु प्रवेशः १० जूनमासतः प्रारभ्यते
वाराणसीनगरम्, ०४ जूनमासः (हि.स.)। सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य ऑनलाइन-संस्कृत-प्रशिक्षण-केन्द्रे शैक्षणिक-सत्रं २०२६-२७ इत्यस्य वार्षिक-डिप्लोमा-तथा षाण्मासिक-प्रमाणपत्र-पाठ्यक्रमेषु प्रवेश-प्रक्रिया १० जूनतः आरभ्य ०५ जुलाई २०२६ पर्यन्तं
कुलपति प्रो.बिहारी लाल शर्मा


वाराणसीनगरम्, ०४ जूनमासः (हि.स.)। सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य ऑनलाइन-संस्कृत-प्रशिक्षण-केन्द्रे शैक्षणिक-सत्रं २०२६-२७ इत्यस्य वार्षिक-डिप्लोमा-तथा षाण्मासिक-प्रमाणपत्र-पाठ्यक्रमेषु प्रवेश-प्रक्रिया १० जूनतः आरभ्य ०५ जुलाई २०२६ पर्यन्तं प्रचलिष्यति। नामांकनम्, अध्ययनम्, परीक्षा तथा प्रमाणपत्र-वितरणं सहिताः सर्वाः शैक्षणिक-क्रियाः पूर्णतः ऑनलाइन-माध्यमेन सञ्चाल्यन्ते।

विश्वविद्यालयस्य कुलपतिः बिहारीलाल: शर्मा इत्यनेन गुरुवासरे उक्तं यत् उत्तर-प्रदेश-शासनस्य उच्च-शिक्षा-विभागस्य वित्तीय-सहयोगेन सञ्चालितम् इदं केन्द्रं संस्कृत-भाषायाः, भारतीय-संस्कृतेः तथा ज्ञान-परम्परायाः प्रसाराय सह रोजगारोन्मुख-शिक्षा-प्रदाने महत्त्वपूर्णां भूमिकां निर्वहति।

अयं कार्यक्रमः विशेषतः महिलानां, कार्यरत-जनानां, ग्रामीण-प्रदेशीय-विद्यार्थिनां, प्रवासी-भारतीयानां तथा भारतीय-संस्कृत्यां आध्यात्मिक-परम्परासु च रुचिं धारयतां साधकानां कृते गृहात् एव गुणवत्तापूर्ण-शिक्षा-प्राप्तेः उत्तमः अवसरः इति उक्तम्।

ऑनलाइन-संस्कृत-प्रशिक्षण-केन्द्रस्य निदेशकः प्रो.रमेश-प्रसादः इत्यनेन उक्तं यत् षाण्मासिक-प्रमाणपत्र-पाठ्यक्रमेषु कर्मकाण्डः, ज्योतिषम्, कुण्डली-विज्ञानम्, वास्तु-विज्ञानम्, संस्कृत-सम्भाषणम्, योगः तथा पालि-विषयाः पाठ्यन्ते। वार्षिक-डिप्लोमा-पाठ्यक्रमेषु कर्मकाण्ड-तथा ज्योतिष-कुण्डली-विज्ञानयोः प्रवेशः प्रदीयते।

तेन उक्तं यत् प्रमाणपत्र-पाठ्यक्रमाणां शुल्कं १५०० रूप्यकाणि तथा वार्षिक-डिप्लोमा-पाठ्यक्रमाणां शुल्कं २००० रूप्यकाणि निर्धारितम् अस्ति। २०२३ तमे वर्षे स्थापनेन अनन्तरं केन्द्रम् इदं ५०००-तः अधिकेभ्यः अभ्यर्थिभ्यः भारतीय-ज्ञान-परम्परा-आधारितं प्रशिक्षणं प्रदत्तवती अस्ति।

इच्छुकाः अभ्यर्थिनः प्रवेश-प्रक्रियायाः विस्तृत-सज्दास्ययि कृते आधिकारिक-जालपुटस्य अवलोकनं कर्तुं शक्नुवन्ति।

Hindusthan Samachar / Divya Ranjan