पतंजलेः इंडोनेशियायाश्च हिंदू विश्वविद्यालयस्य मिथः अनुबंधः
हरिद्वारम्, 04 जूनमासः (हि.स.)। सनातनसंस्कृतेः, योगस्य तथा भारतीयज्ञानपरम्परायाः वैश्विकविस्तारस्य दिशि पतञ्जलियोगपीठस्य इण्डोनेशियादेशस्य एकमात्रस्य हिन्दूनेगरीविश्वविद्यालयस्य च मध्ये ऐतिहासिकसहमतिस्मारकपत्रे हस्ताक्षराणि कृतानि। एषा सहमतिः इण्
एमओयू पर हस्ताक्षर करते हुए


हरिद्वारम्, 04 जूनमासः (हि.स.)।

सनातनसंस्कृतेः, योगस्य तथा भारतीयज्ञानपरम्परायाः वैश्विकविस्तारस्य दिशि पतञ्जलियोगपीठस्य इण्डोनेशियादेशस्य एकमात्रस्य हिन्दूनेगरीविश्वविद्यालयस्य च मध्ये ऐतिहासिकसहमतिस्मारकपत्रे हस्ताक्षराणि कृतानि। एषा सहमतिः इण्डोनेशियादेशस्य बालीद्वीपे सम्पन्नः, यस्मिन् पतञ्जलिविश्वविद्यालयस्य कुलपतिः आचार्यबालकृष्णः नेतृत्वकारीभूमिकां निर्वाहितवान्। उभयोः संस्थयोः मध्ये सम्पन्नेन अनेन सहयोगेन योगस्य, अनुसन्धानस्य, शिक्षायाः तथा सनातनसंस्कृतेः क्षेत्रेषु व्यापकविनिमयस्य मार्गः प्रशस्तः भविष्यति।

सहमतिः स्मारकपत्रस्य अन्तर्गतं उभयोः विश्वविद्यालययोः छात्राणां शिक्षकाणां च कृते विशेषशैक्षणिकसत्राणि, संयुक्तानुसन्धानपरियोजनाः तथा योगप्रतियोगितानां आयोजनम् इत्यादिषु सहमतिर्निर्मिता। इण्डोनेशियादेशस्य एतत् प्रतिष्ठितं विश्वविद्यालयं पञ्चत्रिंशत् विभिन्नसंकायानां सञ्चालनं करोति तथा च हिन्दूअध्ययनस्य, संस्कृतेः तथा आधुनिकशिक्षायाः क्षेत्रेषु महत्त्वपूर्णां भूमिकां निर्वहति। विश्वविद्यालयस्य वरिष्ठपदाधिकारी प्रोफेसरडाक्टर जीएनसुदियाना तथा प्रो मादेपूर्णमा इत्येतयोः नेतृत्वे प्रतिनिधिमण्डलेन आचार्यबालकृष्णस्य पतञ्जलिदलस्य च पारम्परिकस्वागतं कृतम्।

बालीप्रदेशस्य विधानसभाध्यक्षः देवामाडेमहायदनी पतञ्जलेः कार्याणि प्रशंसन् शीघ्रमेव हरिद्वारस्थितस्य पतञ्जलियोगपीठस्य भ्रमणं कर्तुम् इच्छाम् व्यक्तवान्। तेन शिक्षाक्षेत्रे, स्वास्थ्यक्षेत्रे तथा कृषिक्षेत्रे पतञ्जलेन सह संयुक्तरूपेण कार्यं कर्तुम् अपि अभिलाषः प्रकटितः।

आचार्यबालकृष्णः अपि बालीप्रदेशे संस्कृत्याधारितविकासप्रतिमानस्य संवर्धनं तथा उभयपक्षयोः मध्ये सहयोगस्य सुदृढीकरणं प्रति सहमतिं व्यक्तवान्। तेन उक्तं यत् बालीप्रदेशस्य पर्यावरणानुकूलविकासप्रतिमानात् प्रेरणां स्वीकृत्य उत्तराखण्डराज्यस्य पौडीजनपदे स्थितं धन्वन्तरिधाम मालाग्रामम् अपि विकसितं भविष्यति, येन स्थानीयसंस्कृतेः पर्यावरणस्य च संरक्षणं सुनिश्चितं भविष्यति।

आचार्यबालकृष्णः अवदत् यत् एषा सहमतिः केवलं द्वयोः संस्थयोः मध्ये सहयोगमात्रं नास्ति, अपितु वैश्विकस्तरे भारतीयसंस्कृतेः, योगस्य तथा वैदिकज्ञानपरम्परायाः विस्तारस्य दिशि एका महत्त्वपूर्णा प्रयत्नोऽस्ति। अनेन आगामिवर्षेषु उभयदेशयोः युवभ्यः अनुसन्धानकर्तृभ्यश्च व्यापकः लाभः भविष्यति।

Hindusthan Samachar / Dheeraj Maithani