कोलकातायां वाटर मेट्रोयानस्य शुभारंभः, मुख्यमंत्रिणा शुभेंदुना कृता महती घोषणा
कोलकाता, 4 जूनमासः (हि.स.)। पश्चिमबङ्गालराज्यस्य मुख्यमन्त्री शुभेन्दुअधिकारी गुरुवासरे राज्ये जलपरिवहनव्यवस्थायाः आधुनिकीकरणस्य दिशि महत्त्वपूर्णं पदं स्वीकृत्य कोलकातानगरे जलमेट्रोसेवायाः आरम्भस्य घोषणाम् अकरोत्। सचिवालये केन्द्रीयनौपरिवहनमन्त्र
सचिवालय में मुख्यमंत्री की प्रेस कॉन्फ्रेंस


कोलकाता, 4 जूनमासः (हि.स.)। पश्चिमबङ्गालराज्यस्य मुख्यमन्त्री शुभेन्दुअधिकारी गुरुवासरे राज्ये जलपरिवहनव्यवस्थायाः आधुनिकीकरणस्य दिशि महत्त्वपूर्णं पदं स्वीकृत्य कोलकातानगरे जलमेट्रोसेवायाः आरम्भस्य घोषणाम् अकरोत्। सचिवालये केन्द्रीयनौपरिवहनमन्त्री सर्वानन्दसोनोवालेन सह सम्पन्नायाः उच्चस्तरीयोपवेशनस्य अनन्तरं तेन एषा सूचना प्रदत्ता। अस्यां बैठके राज्यकेन्द्रशासनयोः मध्ये जलमार्गबन्दरगाहविकाससम्बद्धेषु बहुषु महत्त्वपूर्णविषयेषु सहमतिर्निर्मिता।

मुख्यमन्त्री अवदत् यत् कोलकातानगरे जलमेट्रोपरियोजना शीघ्रतया अग्रे नीयते, येन नगरस्य नदीमार्गेषु यातायातव्यवस्था अधिकसुविधाजनका आधुनिकी च भविष्यति। तेन उक्तं यत् एषा पहलः राज्ये जलपरिवहनस्य नूतनयुगस्य आरम्भं करिष्यति तथा च नगरीययातायातस्य भारं न्यूनीकर्तुमपि साहाय्यं करिष्यति।

बैठकायाः समये एतदपि निर्णीतं यत् राज्ये चतुश्चत्वारिंशत् जलयानावरोहणस्थलानां निर्माणं भविष्यति, यदा च राष्ट्रियजलमार्गस्य कृते पञ्चविंशतिः जलयानावरोहणस्थानानि निर्माणस्य अन्तिमचरणे सन्ति। एतदतिरिक्तं बागबाजार, अहिरीटोला, शोभाबाजार, मल्लिकघाट, रामकृष्णघाट तथा बांधाघाट इत्यादीनां प्रमुखघाटानां सौन्दर्यीकरणस्य पुनर्निर्माणस्य च कार्यम् आरब्धम् अस्ति। एतत् कार्यं दुर्गापूजापूर्वं सम्पन्नं कर्तुं लक्ष्यं निर्धारितम् अस्ति।

मुख्यमन्त्री गङ्गासागरमहोत्सवस्य अन्तर्राष्ट्रीयस्तरे विकासस्य योजनायामपि विशेषबलम् अददात्। तेन उक्तं यत् कपिलमुन्याश्रमस्य समीपस्थस्य तटीयप्रदेशस्य विकासः क्रियते, येन तीर्थयात्रिकेभ्यः उत्तमसुविधाः प्रदातुं शक्येरन् तथा च पर्यटनस्य अपि संवर्धनं भवेत्।

एतेन सह कोलकाताबन्दरगाहक्षेत्रे अवैधाधिग्रहणानां तथा अवैधानिकक्रियाकलापानां विरुद्धं कठोरकार्यवाह्याः निर्देशाः अपि दत्ताः। राज्यशासनस्य कथनम् अस्ति यत् बन्दरगाहक्षेत्रे अनुशासनस्य पारदर्शितायाश्च सुनिश्चितीकरणं प्राथमिकता भविष्यति।

मुख्यमन्त्री एतदपि अवदत् यत् ताजपुरे प्रस्तावितायाः बन्दरगाहपरियोजनायाः कृते पर्याप्तभूमेः अभावात् अधुना तस्याः विकासः दादनपात्रघाटे कर्तुं निर्णयः कृतः अस्ति। एतत् स्थानं ताजपुरात् प्रायः दश किलोमीटरदूरे वर्तते तथा च अत्र प्रायः सप्तदशशताधिकसहस्रएकरपरिमिता भूमिः उपलब्धा अस्ति। तेन गम्भीरसमुद्रीयबन्दरगाहस्य निर्माणं सुलभं भविष्यति।

राज्यशासनस्य मतम् अस्ति यत् एताभिः सर्वाभिः परियोजनाभिः पश्चिमबङ्गाले जलपरिवहनस्य, व्यापारस्य तथा मालपरिवहनव्यवस्थायाः नूतना दिशा प्रदास्यते तथा च जीविकावसराः अपि वर्धिष्यन्ते।------------------

Hindusthan Samachar / Dheeraj Maithani