विश्व पर्यावरण दिवसे फलकप्रतियोगिता, प्रशिक्षणं, संगोष्ठी एवं पुरस्कार वितरण समारोहश्च
वित्त, आवास एवं पर्यावरणमंत्री ओ.पी. चौधरी भविष्यति मुख्यातिथिः रायपुरम् , 04 जूनमासः (हि.स.)। विश्वपर्यावरणदिवसस्य अवसरे छत्तीसगढपर्यावरणसंरक्षणमण्डलेन ०५ जून तमे दिने रायपुरनगरस्य एकस्मिन् निजीपथिकाश्रये विविधपर्यावरणीयकार्यक्रमाणाम् आयोजनं क्
विश्व पर्यावरण दिवसे फलकप्रतियोगिता, प्रशिक्षणं, संगोष्ठी एवं पुरस्कार वितरण समारोहश्च


वित्त, आवास एवं पर्यावरणमंत्री ओ.पी. चौधरी भविष्यति मुख्यातिथिः

रायपुरम् , 04 जूनमासः (हि.स.)।

विश्वपर्यावरणदिवसस्य अवसरे छत्तीसगढपर्यावरणसंरक्षणमण्डलेन ०५ जून तमे दिने रायपुरनगरस्य एकस्मिन् निजीपथिकाश्रये विविधपर्यावरणीयकार्यक्रमाणाम् आयोजनं क्रियते। कार्यक्रमस्य उद्देश्यं पर्यावरणसंरक्षणस्य प्रति जनजागरूकतां वर्धयितुं तथा युवासु विद्यार्थिषु च प्रकृतेः जलवायोश्च प्रति संवेदनशीलतां विकसितुं वर्तते।

कार्यक्रमस्य शुभारम्भः प्रातः १० वादने पोस्टरप्रतियोगितया तथा इको क्लबस्य शिक्षकाणां प्रशिक्षणसत्रेण सह भविष्यति। पोस्टरप्रतियोगितायाः माध्यमेन विद्यार्थिभ्यः युवभ्यश्च पर्यावरणीयपरिस्थितयस्तासां समाधानानि च विषयीकृत्य सृजनात्मकाभिव्यक्तेः अवसरः प्रदास्यते।

अपराह्णे ३:३० वादनात् पर्यावरणसंरक्षणं सततविकासश्च इति विषये सङ्गोष्ठी तथा पुरस्कारवितरणसमारोहः आयोजितः भविष्यति। कार्यक्रमे मुख्यातिथिरूपेण प्रदेशस्य वित्त-आवास-पर्यावरणमन्त्री ओ. पी. चौधरी उपस्थितः भविष्यति।

छत्तीसगढपर्यावरणसंरक्षणमण्डलस्य सदस्यसचिवः राजु अगसिमनि अवदत् यत् विश्वपर्यावरणदिवसस्य अवसरे आयोजितः अयं कार्यक्रमः समाजस्य विविधवर्गान् पर्यावरणसंरक्षणस्य सामूहिकप्रयत्नैः सह संयोजयितुं दिशि महत्त्वपूर्णा पहल अस्ति। तेन उक्तं यत् पर्यावरणीयचुनौत्यः प्रभावकारीरीत्या प्रतियोद्धुं जनसहभागिता जागरूकता च अत्यन्तम् आवश्यकौ स्तः।

पुरस्कारवितरणसमारोहे पोस्टरप्रतियोगितायाः विजेतारः प्रतिभागिनः सम्मानिताः भविष्यन्ति। अस्मिन् अवसरे इको क्लबानां गतिविधीनां, नवाचाराणां तथा पर्यावरणसंरक्षणसम्बद्धप्रयत्नानाम् आधारेण डिजिटलप्रदर्शनी अपि आयोजिता भविष्यति। सहैव प्रदेशस्य उत्कृष्टैः इको क्लबैः सञ्चालितानां पर्यावरणीयगतिविधीनाम् उपलब्धीनां च विशेषप्रदर्शनी प्रस्तूयते।

कार्यक्रमे शिक्षकाणां, विद्यार्थिनां, पर्यावरणविशेषज्ञानां, सामाजिकसङ्गठनानां तथा विविधशैक्षणिकसंस्थानानां प्रतिनिधीनां सहभागिता भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani