Enter your Email Address to subscribe to our newsletters

नवदेहली, ०४ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अहमदाबाद-नगरे आयोजितायाः प्रथम-विश्व-योगासन-क्रीडा-चैम्पियनशिप्-२०२६ इत्यस्य शुभारम्भं कुर्वन् उक्तवान् यत् योगः मानवतायै भारतस्य शाश्वत-उपहारः अस्ति। तेन उक्तं यत् अस्याः प्रतियोगितायाः माध्यमेन योगासनाय वैश्विक-प्रतिस्पर्धात्मक-क्रीडारूपेण नूतना प्रतिष्ठा प्राप्ता भविष्यति तथा भविष्ये अन्ताराष्ट्रिय-क्रीडा-प्रतियोगितासु अपि स्थानं लप्स्यते।
प्रधानमन्त्री अवदत् यत् योगः मनः, शरीरम् आत्मानं च एकीकृत्य स्वस्थं सामञ्जस्यपूर्णं च जीवनं प्रददाति। अस्मिन् वर्षे अन्ताराष्ट्रिय-योग-दिवसस्य विषयः “योगः स्वस्थ-वार्धक्याय” इति अस्ति। तेन जनान् प्रतिदिनं योगाभ्यासं कर्तुं प्रेरितवान् तथा प्रतियोगितायां भागं गृह्णद्भ्यः क्रीडकेभ्यः स्वदेशेषु योगस्य दूताः भवितुम् आह्वानं कृतवान्।
अन्ते तेन सर्वान् प्रतिभागिनः अभिनन्द्य प्रथम-विश्व-योगासन-क्रीडा-चैम्पियनशिप्-२०२६ इत्यस्य औपचारिक-शुभारम्भस्य घोषणा
Hindusthan Samachar / Divya Ranjan