Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 04 जूनमासः (हि.स.)।
उत्तराखण्डशासनस्य निर्देशानाम् अनुपालनेन हरिद्वारजनपदे संस्कृतभाषायाः प्रचारप्रसारस्य प्रोत्साहनार्थं सर्वेषु शासकीयकार्यालयेषु सार्वजनिकस्थलेषु च हिन्दीभाषया सह संस्कृतभाषायामपि नामपट्टिकाः सूचनाफलकानि च स्थापितानि भविष्यन्ति।
मुख्यविकासाधिकारी डा. ललितनारायणमिश्रेण उक्तं यत् राज्यस्य द्वितीयराजभाषारूपेण संस्कृतभाषायाः व्यापकप्रयोगस्य प्रोत्साहनार्थम् एषा पहलः क्रियते। अस्य अन्तर्गतं शासकीयकार्यालयेषु, बसस्थानकेषु, रेलस्थानकेषु, विमानस्थानकेषु, राज्यस्य प्रवेशद्वारेषु तथा अन्येषु सार्वजनिकस्थलेषु द्विभाषिकफलकानि स्थापितानि भविष्यन्ति।
जनपदस्य सर्वेषां विभागाध्यक्षानां कार्यालयाध्यक्षानां च निर्देशाः प्रदत्ताः यत् ते स्वकार्यालयानां अधीनस्थानां संस्थानानां च नामपट्टिकाः तत्कालप्रभावेण हिन्दीसंस्कृतभाषयोः उभयोरपि भाषयोः अङ्कयन्तु। संस्कृतानुवादसम्बद्धायाः कस्यापि सहाय्यस्य कृते हरिद्वारस्य सहायकनिदेशकः संस्कृतशिक्षा तथा नामितः नोडलाधिकारी वाणीभूषणभट्टः सम्पर्कनीयः अस्ति। सहैव संस्कृतभाषायां निर्मितानां नामपट्टिकानां छायाचित्राणि सम्बन्धिताधिकारिभ्यः व्हाट्सएपमाध्यमेन प्रेषयितुं निर्देशाः अपि प्रदत्ताः, येन कार्यस्य प्रगतिसमीक्षा कर्तुं शक्येत।
जिलाप्रशासनेन स्पष्टतया उक्तं यत् शासनस्य एतेषां निर्देशानां समयबद्धम् अनुपालनं सुनिश्चितं क्रियताम्। यदि काचित् उपेक्षा दृश्यते तर्हि सम्बन्धिताधिकारिणां विरुद्धम् आवश्यककार्यवाही करिष्यते।
Hindusthan Samachar / Dheeraj Maithani