विश्व-साइकल-दिवसे आशा-प्रतिष्ठानेन साइकिल-शोभायात्राया: आयोजनं कृतम्
नाहननगरम्, ०४ जूनमासः (हि.स.)। विश्व-साइकिल-दिवसस्य अवसरं दृष्ट्वा उम्मीद-फाउंडेशन-इत्यनेन पांवटा-साहिबस्य बद्रीपुर-क्षेत्रे साइकिल-शोभायात्राया: आयोजनं कृतम्। अस्या: शोभायात्रा-कार्यक्रमस्य मुख्य-उद्देश्यं ऊर्जा-संकट-निवारणाय साइकिल-यातायात-साधनस
विश्व साइकिल दिवस के अवसर पर उम्मीद फाउंडेशन द्वारा पांवटा साहिब के बद्रीपुर में साइकिल रैली का आयोजन


नाहननगरम्, ०४ जूनमासः (हि.स.)। विश्व-साइकिल-दिवसस्य अवसरं दृष्ट्वा उम्मीद-फाउंडेशन-इत्यनेन पांवटा-साहिबस्य बद्रीपुर-क्षेत्रे साइकिल-शोभायात्राया: आयोजनं कृतम्।

अस्या: शोभायात्रा-कार्यक्रमस्य मुख्य-उद्देश्यं ऊर्जा-संकट-निवारणाय साइकिल-यातायात-साधनस्य उपयोगं प्रोत्साहयितुं तथा क्षेत्रे वर्धमान-नशा-प्रवृत्तेः विरुद्धं जन-जागरूकतां प्रसारयितुं आसीत्।

कार्यक्रमस्य शुभारम्भः समाजसेविना ताहिर-हुसैनेन कृतः। शोभायात्रा-अवसरे सर्वासां द्विचक्रिकाणां पुरतः नशा-निवारण-सन्देशयुक्ता: पट्टिकाः स्थापिताः आसन्, तथा मार्गे जनानां मध्ये पेम्प्लेट-वितरणं अपि कृतम्।

ताहिर-हुसैनः रैली-प्रारम्भात् पूर्वं ऊर्जा-संरक्षणस्य तथा साइकिल-उपयोगस्य महत्त्वं वर्णयित्वा युवानः नशा-दुर्व्यसनात् दूरं स्थित्वा स्वस्थ-जीवनं यापयितुं प्रेरितवान्। कार्यक्रम-संयोजिका साहना इत्यनया अपि बालकेभ्यः स्वस्थ-जीवन-शैली-स्वीकारेण सह नशा-निवारणस्य दुष्परिणामाः विषये जागरूकता प्रदत्ता।

Hindusthan Samachar / Divya Ranjan