मुख्यमन्त्रिणा ९.७४ लक्ष-लाभग्राहिणां धनागारेषु १७६.५९ कोटि-रूप्यकाणां निवृत्तिवेतन-राशिः वितरिता, तथा मादकद्रव्य-निवृत्ति-शपथः अपि ग्राहिता
देहरादूननगरम्, ०४ जूनमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंह-धामी गुरुवासरे सर्वे-चौक-स्थिते आईआरडीटी-सभागारे आयोजिते राज्य-स्तरीय-सामूहिक-जागरूकता-तथा-अभिमुखीकरण-कार्यक्रमे विविध-सामाजिक-सुरक्षा-योजनानां अन्तर्गतं मे- २०२६ मासस्य निवृत्तिवेतन-राशिं
पेंशन राशि लाभार्थियों के खातों में हस्तांतरित करते हुए।


देहरादूननगरम्, ०४ जूनमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंह-धामी गुरुवासरे सर्वे-चौक-स्थिते आईआरडीटी-सभागारे आयोजिते राज्य-स्तरीय-सामूहिक-जागरूकता-तथा-अभिमुखीकरण-कार्यक्रमे विविध-सामाजिक-सुरक्षा-योजनानां अन्तर्गतं मे- २०२६ मासस्य निवृत्तिवेतन-राशिं लाभग्राहिणां धनागारेषु अन्तरितवान्।

मुख्यमन्त्रिणा एक-निमेष-प्रणाल्याः (वन-क्लिक-प्रणाली) माध्यमेन ९,७४,३३८ लाभग्राहिणां कृते १७६ कोटि ५९ लक्ष २४ सहस्र-रूप्यकाणां निवृत्तिवेतन-राशिः निर्गतिता। अस्मिन् अवसरे मुख्यमन्त्रिणा “नशा-मुक्त-उत्तराखण्ड-अभियानस्य” तथा वरिष्ठ-नागरिकाणां सम्मान-परिचर्यायाः शपथः अपि ग्राहिता। सः अवदत् यत् सामाजिक-कल्याण-योजनाः समाजस्य अन्तिम-व्यक्तिपर्यन्तं प्रापणं सरकारस्य सर्वोच्चा प्राथमिकता अस्ति, तथा प्रत्येकं पात्र-जनः भेदभाव-विलम्बं विना लाभं प्राप्नुयात्।

मुख्यमन्त्रिणा उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदी-नेतृत्वे जन-धन-योजना, उज्ज्वला-योजना, प्रधानमंत्री-आवास-योजना, आयुष्मान-भारत-योजना तथा निःशुल्क-राशन-योजनादिभिः कोटिशः जनानां जीवनं सकारात्मकतया परिवर्तितम्। तथा मुद्रा-योजना, पीएम-स्वनिधि, स्टैण्ड-अप-इण्डिया तथा राष्ट्रीय-आजीविका-अभियानादिभिः स्वरोजगारस्य आर्थिक-सशक्तिकरणस्य च प्रवर्धनं कृतम्।

सः अवदत् यत् राज्य-सर्वकारः सामाजिक-न्याय-सुदृढीकरणाय निरन्तरं कार्यं करोति। अन्त्योदय-परिवाराणां कृते प्रतिवर्षं त्रयः निःशुल्क-गैस-उपस्कराः प्रदीयन्ते, स्वयं-सहायता-समूहानां “लखपति-दीदी-योजना” तथा कौशल-विकास-कार्यक्रमैः सह संयोजनं कृत्वा महिलानां आत्मनिर्भरता वर्ध्यते। मुख्यमंत्री-स्वरोजगार-योजना, मुख्यमंत्री-पलायन-निरोध-योजना, वाइब्रन्ट-ग्राम-कार्यक्रमः तथा अपणि-सर्वकार-पटल-माध्यमेन विकासलाभः अन्तिम-जनपर्यन्तं प्राप्यते।

मुख्यमन्त्रिणा उक्तं यत् उत्तराखण्डे मार्ग-स्वास्थ्य-शिक्षा-रेल-तथा-वायु-संयोजन-क्षेत्रेषु तीव्र-विकासः जातः। राष्ट्रीय-क्रीडा-आयोजनैः, जी-२०-सभाभिः तथा ग्लोबल-निवेशक-समागमैः राज्यस्य नवीन-परिचयः प्राप्तः। केदारखण्ड-मानसखण्ड-मन्दिरमाला-अभियानम्, शारदा-परिसरः, ऋषिकेश-हरिद्वार-परिसरः, यमुना-परिसरः, विवेकानन्द-परिसरः तथा गोल्ज्यू-परिसरः इत्यादयः परियोजनाः तीव्रगत्या प्रचलन्ति।

सः अवदत् यत् गत-चतुर्वर्षेषु राज्यस्य अर्थव्यवस्थायां उल्लेखनीय-वृद्धिः जाता। जीएसडीपी-मध्ये ७.२३ प्रतिशत-वृद्धिः, प्रति-व्यक्ति-आय ४१ प्रतिशत-वृद्धिः तथा बेरोजगारी-दरस्य ४.४ प्रतिशत-ह्रासः अभवत्। नकल-विरोधि-अधिनियमस्य अनन्तरं साढे-चतुर्वर्षेषु ३३ सहस्राधिक-युवानः पारदर्शितया सर्वकारी-नियुक्तिं प्राप्तवन्तः।

अस्मिन् कार्यक्रमे कैबिनेट-मन्त्रिणः खजानदासः, भरत-चौधरी, विधायकाः सविता-कपूरः, पार्वती-दासः, भूपाल-राम-टम्टा, सचिवः श्रीधर-बाबु-अद्दांकी, अपर-सचिवः प्रकाशचन्द्रः तथा विविध-आयोग-परिषद्-समितीनां अध्यक्षाः उपाध्यक्षाः च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan