Enter your Email Address to subscribe to our newsletters

देहरादूननगरम्, ०४ जूनमासः (हि.स.)। प्रधानमन्त्री-सूर्य-गृहम् : निःशुल्क-विद्युत्-योजना इत्यस्य प्रभावी-कार्यान्वयने उत्तराखण्ड-राज्येन राष्ट्रीय-स्तरे उल्लेखनीया उपलब्धिः प्राप्ता। राज्यं चतसृषु प्रमुख-श्रेणीषु प्रथम-स्थानं प्राप्तवद् अस्ति। एषः सम्मानः नवदेहली-स्थिते अटल-अक्षय-ऊर्जा-भवने आयोजिते समारोह: केन्द्रीय-मन्त्रिणा प्रदत्तः।
राज्य-सर्वकारेण एषा उपलब्धिः उत्तराखण्डे स्वच्छ-ऊर्जा-क्रान्तेः, सतत-विकासस्य तथा अक्षय-ऊर्जा-क्षेत्रे निरन्तर-उत्कृष्टतायाः दिशि महत्त्वपूर्णः मील-प्रस्तरः इति निरूपिता। मुख्यमन्त्रिणः पुष्करसिंह-धामी इत्यस्य नेतृत्वे तथा मुख्य-सचिवस्य प्रमुख-सचिवस्य (ऊर्जा) च डॉ.आर.मीनाक्षी-सुन्दरम् इत्यस्य मार्गदर्शनेन राज्येन एषा सफलता प्राप्ता।
नवीन-नवीकरणीय-ऊर्जा-मन्त्रालयेन आयोजिते पुरस्कार-समारोहे मध्यम-उपभोक्ता-आधारयुक्त-राज्यानां श्रेण्यां उत्तराखण्डं निम्नलिखित-चतसृषु क्षेत्रेषु प्रथम-स्थानं प्राप्तवान्—
सर्वाधिक-उपभोक्ता-आवेदनानि
सर्वाधिक-गृह-छद-सौर-ऊर्जा-संस्थापनानि (रूफटॉप-सोलर-स्थापनानि)
सर्वाधिक-विद्युत्-वितरण-निगम-निरीक्षणानि (डिस्कॉम-निरीक्षणानि)
सर्वाधिक-विक्रेता-पञ्जीकरणानि
अयं सम्मानः योजनायाः प्रभावी-कार्यान्वयनस्य, उपभोक्ता-जागरूकतायाः, शीघ्र-सेवा-वितरणस्य तथा पारदर्शी-प्रक्रियाणां माध्यमेन सम्पन्नस्य उत्कृष्ट-कार्यस्य परिणामः मन्यते।
उत्तराखण्ड-विद्युत्-निगमेन (यूपीसीएल) राज्यव्यापि-जागरूकता-अभियानैः, विशेष-शिविरैः तथा डिजिटल-माध्यमैः अधिकाधिक-जनान् योजनया सह सम्बद्धान् कर्तुं प्रयासः कृतः। तदतिरिक्तं आवेदन-स्वीकृतिः, तकनीकी-निरीक्षणम्, नेट-मीटरिङ्ग-व्यवस्था तथा सौर-ऊर्जा-संयन्त्र-स्थापन-प्रक्रियाः सरलीकृताः समयबद्धाश्च कृताः, येन उपभोक्तृभ्यः सुविधाः प्रदत्ताः।
प्रधानमन्त्री-सूर्य-गृह-योजनायाः अन्तर्गतं पात्र-उपभोक्तृभ्यः स्वगृहाणां छदिषु सौर-ऊर्जा-संयन्त्र-स्थापनार्थं केन्द्र-सर्वकारेण अनुदानं (सब्सिडी) प्रदीयते। अनेन विद्युत्-व्ययः न्यूनीभवति, स्वच्छ-हरित-ऊर्जायाश्च संवर्धनं भवति। राज्ये अस्याः योजनायाः प्रति वर्धमाना रुचिः ऊर्जा-आत्मनिर्भरतायाः पर्यावरण-संरक्षणस्य च दिशि सकारात्मक-सङ्केतः इति परिगण्यते।
Hindusthan Samachar / Divya Ranjan