राष्ट्रीय-भुजायुद्ध-प्रतियोगितायां मुरादाबादस्य अक्षरा स्वर्णपदकद्वयं विजितवती
मुरादाबादम्, ०५ जूनमासः (हि.स.)। उत्तरप्रदेशस्य मुरादाबाद-जनपदस्य द्वादशवर्षीया क्रीडिका अक्षरा-कुशवाहा राष्ट्रीय-स्तरे आर्म-रेसलिङ्ग-क्रीडायाम् उत्कृष्टं प्रदर्शनं कृत्वा द्वे स्वर्णपदके प्राप्तवती, येन सा स्वजनपदस्य नाम गौरवान्वितवती। अक्षरया एष
स्वर्ण पदक के साथ मुरादाबाद की अक्षरा


मुरादाबादम्, ०५ जूनमासः (हि.स.)। उत्तरप्रदेशस्य मुरादाबाद-जनपदस्य द्वादशवर्षीया क्रीडिका अक्षरा-कुशवाहा राष्ट्रीय-स्तरे आर्म-रेसलिङ्ग-क्रीडायाम् उत्कृष्टं प्रदर्शनं कृत्वा द्वे स्वर्णपदके प्राप्तवती, येन सा स्वजनपदस्य नाम गौरवान्वितवती।

अक्षरया एषा उपलब्धिः गुजरात-राज्यस्य गान्धीनगर-नगरे स्थिते राष्ट्रीय-रक्षा-विश्वविद्यालये २८ मे तः ३ जूनपर्यन्तम् आयोजितायां राष्ट्रीय-आर्म-रेसलिङ्ग-प्रतियोगितायां प्राप्ता।

खुशहालपुर-क्षेत्रस्य पूनम-विहार-निवासिनोः मुकेश-कुशवाहस्य सोनी-गङ्गवारश्च पुत्री अक्षरा-कुशवाहा बुद्धि-विहार-स्थिते सेन्ट-मेरीज-विद्यालये सप्तम-कक्षायाः छात्रा अस्ति।

अक्षरया उपकनिष्ठ-वर्गे (सब्-जूनियर-वर्गे) स्पर्धां कृत्वा उभयोः प्रतिस्पर्धयोः उत्कृष्टं कौशलं प्रदर्श्य स्वर्णपदकद्वयं स्वनाम्नि कृतम्। उत्तरप्रदेशात् अनेके क्रीडकाः अस्यां प्रतियोगितायां सहभागीभूताः आसन्, किन्तु मुरादाबाद-जनपदात् द्वे स्वर्णपदके प्राप्तवती सा एव एकमात्रा बालिका-क्रीडिका आसीत्।

अक्षरायाः सफलतां प्रति तस्याः मातापितरौ हर्षं प्रकटितवन्तौ। तयोः मते अक्षरायाः एषा उपलब्धिः न केवलं मुरादाबादस्य, अपितु समग्रस्य उत्तरप्रदेशस्य अपि गौरवं वर्धितवती अस्ति।

Hindusthan Samachar / Divya Ranjan