Enter your Email Address to subscribe to our newsletters

गुवाहाटीनगरम्, ०५ जूनमासः (हि.स.)। दीर्घकालं यावत् प्रचलितानां अनुमानानां विरामं कृत्वा असम-मन्त्रिमण्डलस्य विस्तारः शुक्रवारदिने कृतः। मुख्यमन्त्रिणः डॉ. हिमन्तबिस्व-सरमा इत्यस्य नेतृत्वे स्थिते सर्वकारे द्वादश-एन.डी.ए.-विधायकेभ्यः मन्त्रीपदस्य शपथः कारित:।
अनेन विस्तारेन एकोनविंशति-सदस्यीय-प्रस्ताविते मन्त्रिमण्डले अद्यावधि सप्तदश पदानि पूरितानि सन्ति।
नव-नियुक्तमन्त्रिषु एकादश विधायकाः भारतीयजनतापक्षात् (भाजपातः) सन्ति, एकः च विधायकः सहकारीदलकात् असमगणपरिषदः (अगप) अस्ति। ज्योति-बिष्णु-अन्ताराष्ट्रिय-कला-मन्दिरे आयोजिते शपथग्रहणसमारोहे राज्यपालः लक्ष्मणप्रसाद-आचार्यः सर्वेभ्यः मन्त्रिभ्यः पद-गोपनीयताशपथं कारितवान्।
शपथं गृहीतवत्सु मन्त्रिषु डॉ.रणोज-पेगू, अश्विनी-राय-सर्वकारः, विश्वजीत-दैमारी, पीयूष-हजारिका, अशोक-सिंघलः, कृष्णेन्दु-पालः, नीलिमा-देवी, जयन्त-मल्ल-बरुआ, कौशिक-रायः, विमल-बोरा, सुशान्त-बरगोहाईं, केशव-महन्तश्च सन्ति। एतेषु केशव-महन्तः एकमात्रः अगप-विधायकः अस्ति, शेषाः सर्वे भाजपादलसम्बद्धाः।
उल्लेखनीयम् यत् शपथं गृहीतवत्सु मन्त्रिषु चत्वारः प्रथमवारं मन्त्रिमण्डले स्थानं प्राप्तवन्तः। सहकारीदले असमगणपरिषदे मन्त्रिमण्डले द्वौ प्रतिनिधी अतुल-बोरा तथा केशव-महन्तौ स्तः। तथैव एन.डी.ए.-स्य अन्यसहकारीदलस्य बी.पी.एफ.-स्य प्रतिनिधित्वं चरण-बोरो कुर्वन्ति।
Hindusthan Samachar / Divya Ranjan