लोकनायक-जयप्रकाश-नारायणेन ‘सम्पूर्ण-क्रान्तेः’ सङ्घर्षः अग्रे नीतः — मुख्यमन्त्री
पटनानगरम्, ०५ जूनमासः (हि.स.)। सम्पूर्ण-क्रान्ति-दिवसस्य अवसरम् अनुसृत्य शुक्रवासरे राजधानी-पटनानगरस्य गान्धी-प्रांगण-स्थिते लोकनायक-जयप्रकाश-नारायणस्य प्रतिमा-स्थले राजकीय-समारोहस्य आयोजनं कृतम्। अस्मिन् अवसरे मुख्यमन्त्री सम्राट-चौधरी इत्यनेन सह
सम्पूर्ण क्रांति दिवस की फोटो


पटनानगरम्, ०५ जूनमासः (हि.स.)। सम्पूर्ण-क्रान्ति-दिवसस्य अवसरम् अनुसृत्य शुक्रवासरे राजधानी-पटनानगरस्य गान्धी-प्रांगण-स्थिते लोकनायक-जयप्रकाश-नारायणस्य प्रतिमा-स्थले राजकीय-समारोहस्य आयोजनं कृतम्। अस्मिन् अवसरे मुख्यमन्त्री सम्राट-चौधरी इत्यनेन सह अनेके जनप्रतिनिधयः, अधिकारिणः, गणमान्य-नागरिकाश्च लोकनायकाय श्रद्धाञ्जलिं समर्प्य तस्य योगदानं स्मृतवन्तः।

समारोहकाले मुख्यमन्त्री जयप्रकाश-नारायणस्य आदमकद-प्रतिमायां माल्यार्पणं कृत्वा तस्मै श्रद्धापूर्वकं नमनम् अकरोत्। सः अवदत् यत् लोकनायकः जयप्रकाश-नारायणः देशे ‘सम्पूर्ण-क्रान्तेः’ आन्दोलनाय नूतनां दिशं प्रदत्तवान् तथा लोकतान्त्रिक-मूल्यानां रक्षणाय स्वसम्पूर्णं जीवनं समर्पितवान्। तस्य सङ्घर्षः केवलं सत्तापरिवर्तनाय नासीत्, अपितु समाजे, राजनीतौ, शासन-व्यवस्थायां च व्यापक-सुधारान् आनेतुं प्रेरितः आसीत्।

सम्राट-चौधरी अवदत् यत् ‘सम्पूर्ण-क्रान्तिः’ केवलं राजनैतिक-आन्दोलनं नासीत्, अपितु समाजस्य सर्वेषु क्षेत्रेषु सकारात्मक-परिवर्तनं कर्तुं व्यापकं अभियानम् आसीत्। अस्याः विचारधारायाः प्रभावेण लोकतन्त्रं सुदृढम् अभवत्, जनसहभागिता वर्धिता तथा शासनं अधिकम् उत्तरदायी जातम्। जयप्रकाश-नारायणेन देशवासिभ्यः अयं सन्देशः प्रदत्तः यत् लोकतन्त्रस्य वास्तविक-शक्तिः जनतायामेव निहिता अस्ति।

मुख्यमन्त्री उक्तवान् यत् सम्पूर्ण-क्रान्तेः प्रणेता, भारत-रत्न-सम्मानितः महान् स्वतन्त्रता-सैनिकः जयप्रकाश-नारायणस्य विचारधारा अद्यापि देशस्य कृते तादृशी एव प्रासङ्गिकी वर्तते यथा तस्य जीवनकाले आसीत्। लोकतान्त्रिक-चेतना, पारदर्शिता, उत्तरदायित्वम्, सामाजिक-न्यायः तथा जनकल्याणम् इत्यादीनि मूल्यानि, येषां कृते तेन सङ्घर्षः कृतः, अद्यापि राष्ट्रनिर्माणस्य आधारशिलारूपेण स्थिताः सन्ति।

स्वसम्बोधने मुख्यमन्त्री अवदत् यत् लोकनायक-जयप्रकाश-नारायणस्य जीवनं त्यागस्य, सङ्घर्षस्य, सत्यनिष्ठायाः तथा राष्ट्रसेवायाः अद्वितीयम् उदाहरणम् आसीत्। सः वैयक्तिक-स्वार्थान् परित्यज्य सर्वदा राष्ट्रहितं जनहितं च प्राधान्येन स्वीकृतवान्। लोकतन्त्रस्य रक्षणाय सामान्यजनानां अधिकाराणां संरक्षणाय च तस्य सङ्घर्षः अग्रिमवंश: अपि प्रेरयिष्यति।

सः यूनः आहूतवान् यत् नूतन: वंश: लोकनायकस्य जीवनात् आदर्शेभ्यश्च प्रेरणां गृह्णीयात्। तस्य विचाराः समाजे नैतिकतायाः, सत्यतायाः, जनसेवायाः तथा लोकतान्त्रिक-मूल्यानां सुदृढीकरणस्य मार्गं प्रदर्शयन्ति। अद्यतनकाले अपि तस्य सिद्धान्ताः सुशासनाय सामाजिक-परिवर्तनाय च अत्यन्तं महत्त्वपूर्णाः सन्ति।

समारोहे उपस्थितैः जनैः लोकनायकस्य योगदानं स्मृत्वा तेन प्रदर्शिते मार्गे चलितुं संकल्पः स्वीकृतः। कार्यक्रमे विविध-विभागानां वरिष्ठ-अधिकारिणः, जनप्रतिनिधयः तथा बहुसंख्यकाः नागरिकाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan