Enter your Email Address to subscribe to our newsletters

नवदेहली, ०५ जूनमासः। विश्वपर्यावरणदिवसावसरे देशव्याप्यं पर्यावरणसंरक्षणं तथा च सततविकासं प्रति जागरूकतावर्धनाय विविधाः कार्यक्रमाः आयोजिताः। अस्मिन् अवसरे उपराष्ट्रपतिः सी. पी. राधाकृष्णन्, लोकसभाध्यक्षः ओम् बिरला, केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः, रक्षामन्त्री राजनाथसिंहः तथा अन्ये केन्द्रीयमन्त्रिणः राज्यमुख्यमन्त्रिणश्च देशवासिनः प्रति शुभकामनाः प्रेषितवन्तः। सर्वे नेतारः पर्यावरणसंरक्षणं, वृक्षारोपणम्, जैवविविधतासंवर्धनं तथा सततविकासं प्रति स्वप्रतिबद्धतां पुनः प्रकट्य नागरिकान् प्रकृतेः संरक्षणे सक्रियभूमिकां निर्वहणाय आह्वानं कृतवन्तः।
उपराष्ट्रपतिः सी. पी. राधाकृष्णन् विश्वपर्यावरणदिवसस्य शुभकामनाः दत्त्वा भारतीयसभ्यतायाः प्रकृत्या सह सह-अस्तित्वस्य परम्परां रेखाङ्कितवान्। सः उक्तवान् यत् प्राचीनतमिळग्रन्थः तिरुक्कुरल् इत्यस्य सन्देशः—“संसाधनानां विवेकपूर्णः उपयोगः सर्वजीवानां च रक्षा”—अद्यतनकाले पूर्वस्मात् अधिकं प्रासङ्गिकः अस्ति। सः जनान् पर्यावरणसंरक्षणं जीवनशैल्याः भागरूपेण स्वीकर्तुं तथा च स्थायी-विकासस्य सिद्धान्तान् आचरितुं प्रार्थितवान्।
लोकसभाध्यक्षः ओम् बिरला उक्तवान् यत् पर्यावरणं केवलं मानवजीवनस्य आधारः न, अपि तु अग्रिमवंशांन् प्रति अस्माकं महत्तमं दायित्वम् अपि अस्ति। सः अवदत् यत् भारतीयसंसद् पर्यावरणसंरक्षणक्षेत्रे आदर्शरूपेण कार्यं करोति। संसदपरिसरे पत्ररहितकार्यप्रणाली, एकवारप्रयुक्तप्लास्टिकनिषेधः, हरितसंसद्भवनं तथा स्वच्छपरिसरः इत्यादयः अनेके प्रयासाः सफलतया प्रवर्तन्ते।
रक्षामन्त्री राजनाथसिंहः अवदत् यत् भारतं जलवायुपरिवर्तनस्य निवारणे, सततविकासप्रवर्धने तथा नवीकरणीयऊर्जाक्षेत्रे उल्लेखनीयाः उपलब्धयः प्राप्तवान्। सः प्रधानमन्त्रिणः नरेन्द्रमोदीमहाशयस्य ‘मातृनाम्ना एकं वृक्षं रोपयामि’ इति अभियानं जन-आन्दोलनत्वेन वर्णयन् नागरिकान् अधिकाधिकं वृक्षारोपणाय पर्यावरणसंरक्षणाय च प्रेरितवान्।
केन्द्रीयगृहमन्त्री सहकारितामन्त्री अमितशाहः उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदीमहाशयस्य नेतृत्वे भारतं पर्यावरणसंरक्षणे तथा स्वच्छऊर्जाक्षेत्रे द्रुतगत्या अग्रे गच्छति। सः अवदत् यत् भारतं अद्य विश्वस्य तृतीयं बृहत्तमं नवीकरणीयऊर्जाक्षमतायुक्तं राष्ट्रम् अस्ति। सः राष्ट्रिय-हरित-हाइड्रोजन-उद्यमम्, सौरऊर्जाविस्तारं तथा वनावरणवृद्धिं भारतस्य प्रमुखसिद्धीरूपेण उल्लिख्य एतान् प्रयासान् आर्थिकविकासं सह पर्यावरणसंरक्षणं च प्रवर्धयन्तीति उक्तवान्।
केन्द्रीयकृषिमन्त्री शिवराजसिंह चौहानः उक्तवान् यत् “वृक्षारोपणं जीवनारोपणम् अस्ति।” सः वृक्षारोपणं पर्यावरणसंरक्षणस्य सरलतमं प्रभावात्मकं च साधनं इति प्रतिपाद्य जनान् अधिकाधिकं पादपरोपणाय प्रेरितवान्।
केन्द्रीयमन्त्री अर्जुनराममेघवालः अपि पर्यावरणसंरक्षणाय सामूहिकसंकल्पग्रहणाय आह्वानं कृतवान्। सः उक्तवान् यत् प्रत्येकं लघुप्रयत्नः अपि हरितस्य स्वच्छस्य च स्वस्थभविष्यस्य निर्माणे महत्त्वपूर्णां भूमिकां वहति।
उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः ‘एकं वृक्षं मातृनाम्ना’ महाभियानस्य अन्तर्गतं प्रदेशव्याप्यवृक्षारोपणकार्यक्रमस्य शुभारम्भं घोषितवान्। सः लखनऊनगरे ‘महर्षि चरक औषधिवनम्’, स्वच्छवायुप्रबन्धनपरियोजना, शतं आर्द्रभूमीनां अधिसूचना तथा वृक्षारोपणमहाभियान-२०२६ इत्यस्य प्रतीकचिह्नस्य अनावरणम् इत्यादीनां कार्यक्रमाणां उल्लेखं कृत्वा अवदत् यत् राज्यसर्वकारः पर्यावरणसंरक्षणं जनसहभागितायुक्तं अभियानं कर्तुं निरन्तरं प्रयतते।
दिल्लीमुख्यमन्त्री रेखा गुप्ता अस्मिन् अवसरे अवदत् यत् राजधानीनगरे मेगा-प्लाण्टेशन-ड्राइव तथा अष्टादश नमो-ऑक्सीजन-प्रांगणानां उद्घाटनद्वारा स्वच्छहरितस्वस्थदिल्ली-अभियानं प्रगतिं प्राप्नोति। सा दिल्लीवासिनः ‘एकं वृक्षं मातृनाम्ना’ अभियाने सक्रियभागग्रहणाय प्रेरितवती।
मध्यप्रदेशस्य मुख्यमन्त्री मोहनयादवः भारतीयसंस्कृतौ प्रकृतेः महत्त्वं रेखाङ्कितवान् तथा अवदत् यत् जलवनस्पतिभूमिनां संरक्षणं अस्माकं सामूहिकदायित्वम् अस्ति।
राजस्थानमुख्यमन्त्री भजनलाल: शर्मा उक्तवान् यत् स्वच्छपर्यावरणं, हरितविकासः तथा सुरक्षितभविष्याय वृक्षारोपणं, जलसंरक्षणं, प्राकृतिक-संसाधनानां संतुलितोपयोगः च आवश्यकः अस्ति।
उल्लेखनीयम् यत् विश्वपर्यावरणदिवसः प्रथमवारं १९७३ तमे वर्षे ५ जूनमासे आचरितः। अस्य आरम्भः १९७२ तमे वर्षे संयुक्तराष्ट्रमहासभया स्टॉकहोम-सम्मेलननिर्णयात् अभवत्। ततः प्रभृति प्रतिवर्षं ५ जूनमासे पर्यावरणसंरक्षणाय जनजागरूकतायै च अस्य दिवसस्य आयोजनं क्रियते।
वास्तवतः विश्वपर्यावरणदिवसः केवलं औपचारिकावसरः न, अपि तु पृथिव्याः अग्रिमवंशानां च भविष्यरक्षणाय सामूहिकसंकल्पः अस्ति।
Hindusthan Samachar / Divya Ranjan