Enter your Email Address to subscribe to our newsletters

शिमला, 05 जूनमासः (हि.स.)।
हिमाचलप्रदेशसर्वकारेण अल्पच्छात्रसंख्यायुक्तानां शासकीयमहाविद्यालयानां पुनर्गठनदिशि महत्त्वपूर्णं पदं गृहीतम् अस्ति। राज्ये पञ्चसप्ततितः न्यूनछात्रसंख्यायुक्तानां दश शासकीयमहाविद्यालयानां अन्येषु बृहन्महाविद्यालयेषु समावेशनस्य आदेशाः निर्गताः सन्ति।
सर्वकारस्य कथनानुसारं येषु महाविद्यालयेषु छात्रसंख्या निरन्तरं न्यूनता गच्छति स्म, तेषु उपलब्धानां शिक्षकाणां, भवनानां तथा अन्यसंसाधनानां पूर्णोपयोगः न भवति स्म। अतः अधुना एतानि संस्थानानि बृहन्महाविद्यालयैः सह संयोज्य शिक्षाव्यवस्थां अधिकप्रभाविनीं कर्तुं प्रयासः क्रियते।
विलयनसूच्यां राजकीयमहाविद्यालयः टिक्कर, राजकीयडिग्रीमहाविद्यालयः भलेई, राजकीयडिग्रीमहाविद्यालयः कुकुमसेरी, राजकीयडिग्रीमहाविद्यालयः कुपवी, आर्यभटराजकीयडिग्रीमहाविद्यालयः सन्धोल, राजकीयडिग्रीमहाविद्यालयः मुल्थान, राजकीयडिग्रीमहाविद्यालयः जैनगर, राजकीयडिग्रीमहाविद्यालयः ननखडी, राजकीयडिग्रीमहाविद्यालयः रोनहाट तथा राजकीयडिग्रीमहाविद्यालयः कोटली समाविष्टाः सन्ति। एतेषु दशसु महाविद्यालयेषु समष्टिरूपेण ४४८ छात्राः अध्ययनं कुर्वन्ति। तेषु टिक्कर तथा भलेई महाविद्यालययोः केवलम् अष्टौ अष्टौ छात्रौ स्तः, यदा रोनहाटमहाविद्यालये सर्वाधिकाः सप्ततिः छात्राः अभिलेखिताः सन्ति। सर्वकारस्य मतम् अस्ति यत् अल्पछात्रसंख्यायुक्तानां महाविद्यालयानां बृहद्संस्थानैः सह संयोजनेन विद्यार्थिनः श्रेष्ठतरं शैक्षणिकपरिवेशं अधिकसुविधाश्च प्राप्स्यन्ति।
सर्वकारेण अस्य निर्णयस्य सह विद्यार्थिभ्यः आर्थिकसाहाय्यस्य घोषणापि कृता। एतेषु दशसु महाविद्यालयेषु प्रथमद्वितीयवर्षयोः समष्टिरूपेण ३१९ छात्राः सन्ति, येषां अधुना अन्येषु महाविद्यालयेषु गत्वा अध्ययनं कर्तव्यं भविष्यति। एतादृशेभ्यः विद्यार्थिभ्यः प्रतिमासं पञ्चसहस्ररूप्यकाणां वृत्तिकं प्रदास्यते। सर्वकारस्य तर्कः अस्ति यत् महाविद्यालयपरिवर्तनस्य कारणेन विद्यार्थिनां गमनागमननिवासादिव्ययेषु अतिरिक्तभारः भवितुमर्हति, अतः एतत् साहाय्यं प्रदीयते। अस्मिन् विषये सर्वकारस्य प्रतिमासं पञ्चदशलक्षपञ्चनवतिसहस्ररूप्यकाणां तथा प्रतिवर्षं प्रायः एककोटिनवत्यधिकैकनवतिलक्षचत्वारिंशत्सहस्ररूप्यकाणां व्ययः भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani