‘हिंदू शताब्दी’ मासिक पत्रिकायाः सेवाविशेषांकःकटके विमोचितः
भुवनेश्वरम्, 05 जूनमासः (हि.स.)। विश्वहिन्दूपरिषदः कटकमहानगरस्य तत्त्वावधाने शुक्रवासरे मासिकपत्रिकायाः हिन्दूशताब्द्याः सेवाविशेषाङ्कस्य विमोचनं कृतम्। कार्यक्रमे मुख्यातिथिरूपेण विशिष्टः शल्यचिकित्सकः तथा चरकस्वास्थ्यसेवाप्रकल्पस्य प्रान्ताध्यक
‘हिंदू शताब्दी’ मासिक पत्रिका का सेवा विशेषांक कटक में विमोचित


भुवनेश्वरम्, 05 जूनमासः (हि.स.)।

विश्वहिन्दूपरिषदः कटकमहानगरस्य तत्त्वावधाने शुक्रवासरे मासिकपत्रिकायाः हिन्दूशताब्द्याः सेवाविशेषाङ्कस्य विमोचनं कृतम्।

कार्यक्रमे मुख्यातिथिरूपेण विशिष्टः शल्यचिकित्सकः तथा चरकस्वास्थ्यसेवाप्रकल्पस्य प्रान्ताध्यक्षः डॉ रमेशचन्द्रदास उपस्थितः आसीत्। सः हिन्दूसमाजस्य परोपकारिणीं सेवापरम्परां प्रकाशयन् लोकतान्त्रिकव्यवस्थायां जनसंख्यायाः महत्त्वं बृहत्परिवारस्य आवश्यकतां च विषये स्वविचारान् व्यक्तवान्।

विश्वहिन्दूपरिषदः क्षेत्रसेवाप्रमुखः हरिश्चन्द्रप्रधानः युवभ्यः उत्कलमणिगोपबन्धुदासस्य सेवाभावात् प्रेरणां ग्रहीतुम्आह्वानम् अकरोत्। तेन हिन्दूमहासभायाम् उत्कलमणेः नेतृत्वस्य योगदानस्य च उल्लेखः कृतः।

विशिष्टः समाजसेवी अभियन्ता भरतचन्द्रस्वाईं संगठनस्य सेवाकार्याणि समाजस्य अन्तिमपङ्क्तौ स्थितजनान् यावत् प्रापयितुं आवश्यकतायाः विषये बलम् अदात्।

पत्रिकायाः सम्पादकीयप्रबन्धकः तथा पूर्वप्राध्यापकः डॉ मलयकुमारमहान्ति श्रीजगन्नाथपरम्परायां सेवा संस्कृत्योः समन्वयस्य विषये स्वविचारान् प्रस्तुतवान्।

कार्यक्रमे पत्रिकायाः प्रबन्धसम्पादकः उपेन्द्रप्रधानः, सलाहकारमण्डलस्य सदस्यः प्रशान्तकुमारपण्डा, लक्ष्मीधरसाहू मूषीभाई, अजयदासः, बंशीधरप्रधानः सहिताः अन्ये अपि बहवः गणमान्यजनाः उपस्थिताः आसन्।

कार्यक्रमस्य अन्ते चरकस्वास्थ्यसेवाप्रकल्पस्य प्रान्तसचिवः गणेशकुमारसाहूः धन्यवादज्ञापनम् अकरोत्।

---------------

Hindusthan Samachar / Dheeraj Maithani