मध्यप्रदेशस्य मुख्यमन्त्री अद्य विश्व-पर्यावरण-दिवसे “एकः पादपः मातुः नाम्ना २.०” अभियानस्य शुभारम्भं करिष्यति
भोपालनगरम्, ०५ जूनमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः अद्य शुक्रवासरे प्रातः ११ वादने विश्व-पर्यावरण-दिवसस्य अवसरे भोपाल-नगरे स्थिते कुशाभाऊ-ठाकरे-अन्ताराष्ट्रिय-सभागारे आयोजिते राज्यस्तरीय-समारोहे “एकः पादपः मातुः नाम्ना २.०” अभ
सीएम मोहन यादव (फाइल फोटो)


भोपालनगरम्, ०५ जूनमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः अद्य शुक्रवासरे प्रातः ११ वादने विश्व-पर्यावरण-दिवसस्य अवसरे भोपाल-नगरे स्थिते कुशाभाऊ-ठाकरे-अन्ताराष्ट्रिय-सभागारे आयोजिते राज्यस्तरीय-समारोहे “एकः पादपः मातुः नाम्ना २.०” अभियानस्य शुभारम्भं करिष्यति।

जनसम्पर्क-अधिकारी के.के.जोशी अवदत् यत् कार्यक्रमे अष्टसु श्रेणीषु एकादश राज्यस्तरीय-पर्यावरण-पुरस्काराः प्रदास्यन्ते। एते पुरस्काराः पर्यावरण-संरक्षणे, प्रदूषण-नियन्त्रणे, सतत-विकासे च उत्कृष्टं कार्यं कुर्वतीभ्यः औद्योगिक-एककेभ्यः, शैक्षणिक-संस्थाभ्यः, सामाजिक-सङ्घटनेभ्यः व्यक्तिभ्यश्च वर्षस्य २०२४-२५ कृते प्रदीयन्ते।

सः अवदत् यत् मुख्यमन्त्री डॉ.यादवः सर्कुलर-इकॉनॉमी-विषयसम्बद्धानां पञ्च पाठ्यक्रम-आदर्शानां विमोचनं करिष्यति। अपि च एप्को तथा इन्टैक-संस्थाभ्यां मध्यप्रदेशे सञ्चाल्यमानस्य जल-गङ्गा-संवर्धन-अभियानस्य अन्तर्गतं षोडश-जनपदानां पञ्चशतानां बावडीनां प्रलेखन-तथ्यानाम् अपि विमोचनं करिष्यति। अस्मिन् अवसरे पर्यावरण-संरक्षणसम्बद्धानां नवाचाराणां, सर्कुलर-इकॉनॉमी-जलसंरक्षणयोः क्षेत्रे कृतानां उल्लेखनीय-कार्याणां प्रदर्शनं प्रस्तुतीकरणं च भविष्यति। आयोजने वन-पर्यावरण-राज्यमन्त्री दिलीप-अहिरवारः अपर-मुख्य-सचिवः अशोक-बर्णवालः च सहभागिनौ भविष्यतः।

जनसम्पर्क-अधिकारीणः अनुसारम् “एकः पादपः मातुः नाम्ना २.०” अभियानस्य अन्तर्गतं नागरिकाः, शैक्षणिक-संस्थाः, उद्योगाः, स्वसहायता-समूहाः, नगरीय-निकायाः, पञ्चायताः तथा विविध-सामाजिक-सङ्घटनानि च पादपारोपणाय प्रेरितानि भविष्यन्ति। रोपितानां पादपानां भू-अङ्कनं (जियो-टैगिङ्ग्) कृत्वा तेषां पञ्जीकरणं मेरी-लाइफ-पटले भविष्यति। पटल-माध्यमेन भू-अङ्कित-पादपानां निरीक्षणं संरक्षणं च सुनिश्चितं भविष्यति। वर्षे २०२४ आरब्धस्य अस्य अभियानस्य अन्तर्गतं मध्यप्रदेशे अद्यावधि कोटिशः पादपाः रोपिताः सन्ति। एतदभियानं ५ जूनतः ३० सितम्बर २०२६ पर्यन्तं जनसहभागितया सम्पूर्णे प्रदेशे सञ्चाल्यते।

सः अवदत् यत् विश्व-पर्यावरण-दिवसे ५ जून २०२६ तमे वर्षे मध्यप्रदेशे पर्यावरण-संरक्षणाय, जैव-विविधता-संवर्धनाय, जनसहभागिता-आधारित-पादपारोपणस्य जनान्दोलनरूपेण विकासाय च जनपद-स्तरपर्यन्तं विविधाः कार्यक्रमाः आयोज्यन्ते। अस्मिन् वर्षे आयोजनं “प्रकृत्या प्रेरिताः, जलवायोः कृते, अस्माकं भविष्यस्य कृते” इति संयुक्त-राष्ट्र-सङ्घस्य विषयवस्तुनि तथा “इदानीमेव जलवायोः कृते” इति राष्ट्रव्यापि-सन्देशे केन्द्रितं भविष्यति। कार्यक्रमे पर्यावरण-संरक्षणं, जलवायु-परिवर्तनम्, प्रदूषण-नियन्त्रणम्, सतत-विकास-लक्ष्याणि च विषयीकृत्य विशेषज्ञाः, जनप्रतिनिधयः, पर्यावरणविदश्च स्वविचारान् प्रस्तोष्यन्ति। अयं समारोहः प्रदेशे पर्यावरणीय-चेतनां सुदृढां कर्तुं समाजस्य विविध-वर्गान् पर्यावरण-संरक्षण-गतिविधिभिः सह संयोजयितुं च महत्त्वपूर्णं मञ्चं भविष्यति।

जनपद-स्तरे विविध-कार्यक्रमाः भविष्यन्ति

जनसम्पर्क-अधिकारीणः अनुसारं सर्वेषु जनपदेषु पर्यावरण-संरक्षणसम्बद्धाः जन-जागरूकता-कार्यक्रमाः, सङ्गोष्ठ्यः, यात्राः, चित्रकला-निबन्ध-प्रतियोगिताः, पादपारोपण-अभियानानि, स्वच्छता-गतिविधयः तथा पर्यावरण-प्रतिज्ञा-कार्यक्रमाश्च आयोज्यन्ते। विद्यालयानां, महाविद्यालयानां, एन.एस.एस., एन.सी.सी., नेहरू-युवा-केन्द्रस्य तथा स्वयंसेवी-सङ्घटनानां सक्रिय-सहभागिता सुनिश्चितीक्रियते।

जनपद-स्तरे “एकः पादपः – अनेकानि जीवनानि” तथा “प्रकृत्या प्रेरिताः, जलवायोः कृते अस्माकं भविष्यत्” इति विषययोः विशेष-कार्यक्रमाः आयोज्यन्ते। जल-संरक्षणस्य, जैव-विविधता-संवर्धनस्य, प्लास्टिक-मुक्त-पर्यावरणस्य, स्वच्छतायाः तथा हरित-विकासस्य सन्देशः जनं जनं प्रति प्रसारयितुं व्यापक-गतिविधयः सञ्चाल्यन्ते।

Hindusthan Samachar / Divya Ranjan