मध्यप्रदेशे विश्व-पर्यावरण-दिवसस्य अवसरे अद्य विशेष-ग्रामसभाः आयोज्यन्ते
भोपालनगरम्, ०५ जूनमासः (हि.स.)। मध्यप्रदेशे विश्व-पर्यावरण-दिवसस्य अवसरे सर्वासु ग्राम-पञ्चायतेषु विशेष-ग्रामसभानाम् आयोजनं भविष्यति। पञ्चायत-राज-ग्राम-स्वराज-अधिनियमस्य प्रावधानानुसारम् एतासां ग्रामसभानाम् आयोजनं क्रियते। रीवा-जनपद-पञ्चायतस्य मुख
विश्व पर्यावरण दिवस (प्रतीकात्मक)


भोपालनगरम्, ०५ जूनमासः (हि.स.)। मध्यप्रदेशे विश्व-पर्यावरण-दिवसस्य अवसरे सर्वासु ग्राम-पञ्चायतेषु विशेष-ग्रामसभानाम् आयोजनं भविष्यति। पञ्चायत-राज-ग्राम-स्वराज-अधिनियमस्य प्रावधानानुसारम् एतासां ग्रामसभानाम् आयोजनं क्रियते।

रीवा-जनपद-पञ्चायतस्य मुख्य-कार्यपालन-अधिकारी मेहताब-सिंह-गुर्जरः अवदत् यत् अद्य विश्व-पर्यावरण-दिवसे आयोज्यमानासु विशेष-ग्रामसभासु “एकः पादपः मातुः नाम्ना” अभियानस्य अन्तर्गतं प्रत्येकस्मिन् ग्रामे निम्ब-अश्वत्थ-वट-आम्रादि-पादपानां रोपणं कारयिष्यते। ग्रामसभायां नवीकरणीय-ऊर्जा, पेयजल-व्यवस्था, सार्वजनिक-स्थलानां स्वच्छता, दृढ-अपशिष्ट-प्रबन्धनं च सम्बन्ध्य प्रस्तावाः प्रस्तुताः भविष्यन्ति। ग्रामसभासु जल-गङ्गा-संवर्धन-अभियानस्य उपलब्धीनां तथा व्ही.बी.जीरामजी-योजनायाः विषये अपि सूचना प्रदास्यते।

ग्रामसभायां प्राकृतिक-कृषेः, ई-विकास-प्रणाल्याः, गर्भवती-महिलानां शिशूनां च स्वास्थ्य-संरक्षणस्य, आयुष्मान-भारत-योजनया, कुपोषण-नियन्त्रणेन च सह विविध-विषयेषु चर्चा भविष्यति। निर्धारित-विषयानुसारं सर्वासु ग्रामसभासु प्रस्तावाः पारिताः भविष्यन्ति। ग्रामसभा-आयोजनानन्तरं छायाचित्रैः सह प्रतिवेदनानि जनपद-पञ्चायत-कार्यालये प्रस्तुतानि भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan