‘एकं वृक्षं मातृनाम्ना’ इति अभियानं राष्ट्रिय-जनआन्दोलनं जातम् - जे.पी. नड्डा
शिलांगनगरम्, ०५ जूनमासः (हि.स.)। विश्वपर्यावरणदिवसावसरे केन्द्रीयस्वास्थ्यमन्त्री जगतप्रकाश-नड्डा शुक्रवारदिने मेघालयराजधान्यां शिलाङ्ग-नगरे पक्षनेतृभिः कार्यकर्तृभिश्च सह वृक्षारोपणकार्यक्रमे भागं गृहीतवान्। अस्मिन् अवसरे सः उक्तवान् यत् प्रधानमन
विश्व पर्यावरण दिवस के अवसर पर केंद्रीय स्वास्थ्य मंत्री जगत प्रकाश नड्डा शुक्रवार को मेघालय की राजधानी शिलांग में पार्टी नेताओं और कार्यकर्ताओं के साथ वृक्षारोपण कार्यक्रम में भाग लेते हुए।


शिलांगनगरम्, ०५ जूनमासः (हि.स.)। विश्वपर्यावरणदिवसावसरे केन्द्रीयस्वास्थ्यमन्त्री जगतप्रकाश-नड्डा शुक्रवारदिने मेघालयराजधान्यां शिलाङ्ग-नगरे पक्षनेतृभिः कार्यकर्तृभिश्च सह वृक्षारोपणकार्यक्रमे भागं गृहीतवान्।

अस्मिन् अवसरे सः उक्तवान् यत् प्रधानमन्त्रिणा नरेन्द्रमोदी-महोदयेन आरब्धं ‘एकं वृक्षं मातृनाम्ना’ इति अभियानम् अधुना राष्ट्रिय-जन-आन्दोलनरूपं प्राप्तम् अस्ति।

वृक्षारोपणानन्तरं कार्यकर्तृभ्यः सम्बोधयन् नड्डा अवदत् यत् ०५ जून २०२४ तमे वर्षे प्रधानमन्त्रिणः नेतृत्वे आरब्धस्य अस्य अभियानस्य उद्देश्यं जनसहभागिता तथा सामूहिकउत्तरदायित्वद्वारा पर्यावरणसंरक्षणस्य प्रवर्धनम् अस्ति। सः अवदत् यत् इदं प्रयोजनं जनान् प्रकृतिसंरक्षणाय हरितभविष्यनिर्माणाय च प्रेरयति।

सः अवदत् यत् विश्वपर्यावरणदिवसावसरे देशव्याप्यं लक्षाधिकाः भारतीयजनतापक्षकार्यकर्तारः अस्मिन् अभियाने वृक्षारोपणं कुर्वन्ति। एषः कार्यक्रमः मातृणां निःस्वार्थप्रेम, स्नेह, त्याग तथा समर्पणं प्रति सम्मानप्रदर्शनाय समर्पितः अस्ति।

प्रकृतेः मातुः च साम्यं निर्दिशन् सः अवदत् यत् यथा माता स्वजीवनपर्यन्तं सन्तानानां पालन-पोषणं रक्षणं च करोति, तथैव प्रकृतिः अपि मानवतां पोषयति रक्षति च। अतः पर्यावरणसंरक्षणं प्रत्येकस्य नागरिकस्य सामूहिकं दायित्वम् अस्ति।

नड्डा अवदत् यत् वर्तमान-आगामिपीढीनां कल्याणाय पर्यावरणसंरक्षणम् अत्यावश्यकम् अस्ति। सः अवदत् यत् अभियानस्य आरम्भात् अस्य विस्तारः सततं वर्धितः—२०२४ तमे वर्षे आरब्धः, २०२५ तमे विस्तारितः, तथा २०२६ तमे अखिलभारतीय-जनआन्दोलनरूपं प्राप्तम् अस्ति।

सः अवदत् यत् अद्य देशव्यापिन: कोटिशः कार्यकर्तारः समर्थकाश्च वृक्षारोपणं पर्यावरणसंरक्षणसम्बद्धेषु कार्यक्रमेषु सक्रियभागित्वं वहन्ति, येन जनजागरूकता तथा जनसहभागिता उभे अपि सुदृढे भवतः।

Hindusthan Samachar / Divya Ranjan