Enter your Email Address to subscribe to our newsletters

नवदेहली, ०५ जूनमासः (हि.स.)। पश्चिम-एशिया-प्रदेशे प्रवर्तमानस्य सङ्कटस्य मध्ये अपि भारतीय-अर्थव्यवस्थया उल्लेखनीय: विकास-दरः प्राप्त:। वित्तवर्षे २०२५-२६ मध्ये सकल-घरेलु-उत्पादस्य (जीडीपी) वृद्धिदरः ७.७ प्रतिशतं अभवत्, यः गत-वित्तवर्षस्य २०२४-२५ तमे वर्षे प्राप्तात् ७.१ प्रतिशत-वृद्धिदरात् अधिकः अस्ति। अस्याः उल्लेखनीयायाः उपलब्धेः विषये भारतीय-जनता-पक्षस्य राष्ट्रीयाध्यक्षः नितिन-नवीनः प्रतिक्रियां व्यक्तवान् यत् एतानि उत्साहवर्धकानि विवरणानि ‘विकसित-भारत-२०४७’ इति लक्ष्यं प्रति भारतस्य प्रगतिं स्पष्टतया रेखाङ्कयन्ति।
सः सामाजिक-माध्यम-मञ्चे ‘एक्स’ इति नाम्नि प्रकाशिते स्वसन्देशे उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्र-मोदी-महोदयस्य नेतृत्वे वैश्विक-अनिश्चिततासु विद्यमानास्वपि भारतस्य अर्थव्यवस्था अत्यन्तं सुदृढा अस्ति तथा निरन्तर-विकासं प्रदर्शयति।
नितिन-नवीनः अवदत् यत् वित्तवर्षे २०२५-२६ मध्ये ७.७ प्रतिशत-जीडीपी-वृद्धिदरः तथा तस्यैव वित्तवर्षस्य चतुर्थ-त्रैमासिके ७.८ प्रतिशत-वृद्धिदरः सशक्ताम् आर्थिक-गतिविधिं सर्वेषु क्षेत्रेषु व्यापक-विकासं च सूचयति। एषा विकास-गतिः निवेशं सुदृढं करोति, यूनां कृते अवसरान् विस्तारयति तथा नागरिकाणां जीवनस्तरं अधिकं सुगमं समुन्नतं च करोति इति सः उक्तवान्।
Hindusthan Samachar / Divya Ranjan