‘एकं वृक्षं मातृनाम्ना’ इति अभियानं जनआन्दोलनं जातम् - नितिन-नवीनः
नवदेहली, ०५ जूनमासः (हि.स.)। विश्वपर्यावरणदिवसावसरे भारतीयजनतापक्षस्य अध्यक्षः नितिन-नवीनः शुक्रवारदिने नेहरू-उद्याने ‘एकं वृक्षं मातृनाम्ना’ इति अभियानेन सह वृक्षारोपणं कृत्वा प्रकृतिसंरक्षणस्य पर्यावरणसंवर्धनस्य च संकल्पं सुदृढीकृतवान्। नितिन-नव
विश्व पर्यावरण दिवस के मौके पर नेहरू पार्क में पौधा रोपण करते भाजपा अध्यक्ष नितिन नवीन


नवदेहली, ०५ जूनमासः (हि.स.)। विश्वपर्यावरणदिवसावसरे भारतीयजनतापक्षस्य अध्यक्षः नितिन-नवीनः शुक्रवारदिने नेहरू-उद्याने ‘एकं वृक्षं मातृनाम्ना’ इति अभियानेन सह वृक्षारोपणं कृत्वा प्रकृतिसंरक्षणस्य पर्यावरणसंवर्धनस्य च संकल्पं सुदृढीकृतवान्।

नितिन-नवीनः अस्मिन् अवसरे पत्रकारैः सह उक्तवान् यत् भारतीयजनतापक्षः प्रतिवर्षं वृक्षारोपण-अभियानं प्रवर्धयति, किन्तु प्रधानमन्त्री नरेन्द्रमोदी महोदयेन एतत् अभियानं जनआन्दोलनरूपं प्रदत्तम्।

सः अवदत् यत् यदा प्रधानमन्त्रिणा ‘एकं वृक्षं मातृनाम्ना’ इति आह्वानं कृतम्, तदा सः देशजनान् अनेन अभियानेन सह भावनात्मकरूपेण संयोजितवान्। इदं अभियानं जनसहभागितया सशक्तं जनआन्दोलनरूपं प्राप्नोति, यत् पर्यावरणसंरक्षणविषये जागरूकतां वर्धयन् हरित-संतुलित-भविष्यनिर्माणाय प्रेरयति।

भाजपाध्यक्षः विश्वासं प्रकटितवान् यत् सर्वे नागरिकाः स्वमातुः स्मृतौ वृक्षारोपणेन सह एतेन अभियानेन योजयिष्यन्ते। पर्यावरणसंरक्षणं अद्य वैश्विक-चिन्ताविषयः अस्ति, तथा प्रधानमन्त्रिणः एष: प्रयत्न: अधुना देशवासिनां सक्रियभागभागित्वेन सञ्चाल्यमानं व्यापक-जनअभियानं जातम् अस्ति। सः जनान् अधिकाधिकं वृक्षारोपणाय पर्यावरणसंरक्षणाय च आह्वानं कृतवान्।

Hindusthan Samachar / Divya Ranjan