Enter your Email Address to subscribe to our newsletters

काठमाण्डूनगरम्, ०५ जूनमासः (हि.स.)। नेपालस्य विदेशमन्त्री शिशिरखनाल: आधिकारिक-भारत-प्रवासाय शुक्रवारदिने नवदेहलीम् आगतः। तत्र भारतीय-विदेश-मन्त्रालये नेपाल-भूटान-विषयक-प्रकरणस्य (नॉर्थ-डेस्क) प्रभारी अतिरिक्त-सचिवेन मनु महावर तस्य स्वागतं कृतम्।
नवदेहलीगमनात् पूर्वं काठमाण्डूस्थिते त्रिभुवन अन्ताराष्ट्रिय विमानस्थानकम् पत्रकारैः सह वार्तालापं कुर्वन् मन्त्री खनालः अवदत् यत् अस्य यात्रायाः उद्देश्यं द्वयोः देशयोः सहभाग-हितविषयेषु तथा नेपालस्य प्राथमिकतासु सार्थक-संवादं कर्तुम् अस्ति।
भारत-प्रवासकाले विदेशमन्त्री खनालः स्वस्य भारतीय-समकक्षेण एस. जयशंकरेण सह औपचारिकां द्विपक्षीय-वार्तां करिष्यति। नेपालस्य विदेश-मन्त्रालयस्य अनुसारं अस्यां वार्तायां नेपाल-भारतयोः पारस्परिक-हितसम्बद्धेषु विविधेषु विषयेषु विस्तृता चर्चा भविष्यति।
वार्तायाः कार्यसूच्यां विशेषरूपेण द्विपक्षीय-व्यापारः, निवेशः, सम्पर्क-सुविधाः, ऊर्जा-सहकार्यं तथा उभयदेशीय-नागरिकाणां मध्ये सम्बन्धानां अधिक-सुदृढीकरणं विस्तारश्च समाविष्टाः सन्ति।
विदेश-मन्त्रालयेन विश्वासः व्यक्तीकृतः यत् नियमित-उच्चस्तरीय-सम्पर्क-श्रृङ्खलायाः अङ्गरूपेण सम्पन्ना एषा यात्रा नेपाल-भारतयोः मध्ये कूटनीतिकान्, ऐतिहासिकान् तथा बहुआयामिकान् सम्बन्धान् अधिकं प्रगाढान् सुदृढान् च कर्तुं महत्त्वपूर्णां भूमिकां निर्वहिष्यति।
निर्धारित-कार्यक्रमानुसारं विदेशमन्त्री शिशिरखनाल: जूनमासस्य ७ दिनाङ्के स्वदेशं प्रत्यागमिष्यति।
/ अंशु गुप्ता