Enter your Email Address to subscribe to our newsletters

काठमाण्डूनगरम्, ०५ जूनमासः (हि.स.)। Uber इति परिवहन-प्रौद्योगिकी-निर्माण्या नेपाले स्वसेवायाः औपचारिकः शुभारम्भः कृतः। औपचारिक-कार्यक्रमस्य आयोजनकाले निर्माण्या नेपालदेशे स्वसञ्चालनस्य आरम्भः घोषितः।
अनेन औपचारिक-शुभारम्भेन सह उबर-निर्माणी नेपालस्य राइड्-हेलिङ्ग-मार्केट-क्षेत्रे प्रवेशं कृतवती। एतेन दक्षिण-एशिया-प्रदेशे निर्माण्या: उपस्थितिः अधिकं सुदृढा जाता, यात्रिभ्यश्च अनुप्रयोग-आधारित-परिवहनस्य नूतनः विकल्पः उपलब्धः अभवत्।
कार्यक्रमकाले निर्माण्या: प्रतिनिधिभिः नेपाले प्रदास्यमानानां सेवासुविधानां विषये सूचना प्रदत्ता। एषः उपक्रमः नेपाली-बाजारे उबर-निर्माण्या: औपचारिक-प्रवेशरूपेण वर्णितः। कम्पन्या संकेतितम् यत् सेवायाः संचालन-क्षेत्रम्, उपलब्ध-सुविधाः तथा अन्य-विशेषतासम्बद्धा विस्तृता सूचना अग्रिमेषु दिवसेषु सार्वजनिकरूपेण प्रकाशिता भविष्यति।
नेपाले उबर-सेवायाः आगमनं देशस्य डिजिटल-परिवहन-क्षेत्रे महत्त्वपूर्णं पदक्षेपं मन्यते। एतेन यात्रिकाणां कृते अधिकाः विकल्पाः, सुगमतराः सेवाः च उपलब्धाः भविष्यन्ति इति अपेक्षा वर्तते।
अस्मिन् अवसरे नेपाल-सर्वकारस्य अनेके वरिष्ठ-अधिकारिणः उपस्थिताः आसन्। तेषु नेपाल पर्यटन मन्त्रालय इत्यस्य सचिवः, अवसंरचना-विकास-मन्त्रालय इत्यस्य सचिवः तथा अन्ये उच्चपदस्थ-अधिकारिणः अपि सम्मिलिताः आसन्।
/ अंशु गुप्ता