Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 05 जूनमासः, (हि.स.)।
असमस्य मुख्यमन्त्री डॉ. हिमन्त बिस्व सरमस्य मन्त्रिमण्डलाय अद्य १२ मन्त्रिणः प्राप्स्यन्ति। १२ विधायकाः शुक्रवासरे मन्त्रिरूपेण शपथं गृह्णीयुः।
एतेषु विधायकेषु अश्विनी राय सरकार, अशोक सिंघल, बिमल बोरा, बिस्वजीत दैमारी, जयन्त मल्लबरुवा, कौशिक राय, केशव महन्त, कृष्णेन्दु पाल, नीलिमा देवी, पियूष हजारिका, डॉ. रणोज पेगू तथा सुशान्त बरगोहाईं समाविष्टाः सन्ति।
समारोहे राज्यपालः लक्ष्मण प्रसाद आचार्य, मुख्यमन्त्री डॉ. हिमन्त बिस्व सरमा, वरिष्ठाः शासकीयाधिकारिणः तथा अन्ये गणमान्यजनाश्च उपस्थिताः भविष्यन्ति।
शपथग्रहणसमारोहः गुवाहाटीस्थे ज्योति-बिष्णु-अन्ताराष्ट्रिय-कला-मन्दिरे आयोज्यते। समारोहस्य सज्जताः सम्पूर्णतया सम्पन्नाः सन्ति।
----------
Hindusthan Samachar / Dheeraj Maithani