Enter your Email Address to subscribe to our newsletters



-मोदिनःपरं योगी भूयात् प्रधानमंत्रीति भगवान् प्रार्थितः
महोबा, 05 जूनमासः (हि.स.)।
बुन्देलैः प्रदेशस्य मुख्यमन्त्रिणः योगीआदित्यनाथस्य चतुःपञ्चाशत्तमं जन्मदिवसम् अनुपमरीत्या आचरितम्। शुक्रवासरे योगिनः आदित्यनाथस्य चतुःपञ्चाशत्तमजन्मदिवसस्य विश्वपर्यावरणदिवसस्य च अवसरे बुन्देलीसमाजस्य सदस्यैः स्वीयरुधिरेण चतुःपञ्चाशत् अभिनन्दनसन्देशाः लिखित्वा मुख्यमन्त्रिणे शुभकामनाः प्रदत्ताः तथा गोरखगिरिपर्वतस्य तीर्थविकासाय मुख्यमन्त्रिणे धन्यवादः प्रदत्तः।
शुक्रवासरे योगीआदित्यनाथस्य चतुःपञ्चाशत्तमजन्मदिवसस्य अवसरे बुन्देलीसमाजस्य सदस्याः जनपदमुख्यालयस्थिते अम्बेडकरपार्के समागत्य अनोखरीत्या मुख्यमन्त्रिणः जन्मदिवसम् आचरितवन्तः।
बुन्देलीसमाजस्य संयोजकः तारापाटकर अवदत् यत् सर्वे जनाः स्वस्वरीत्या मुख्यमन्त्रिणे अभिनन्दनानि प्रेषयन्ति। अस्माभिः तु स्वीयरुधिरं तदर्थं चयनितम्। सम्भवति यत् लक्षशः सन्देशेषु अस्माकं रुधिरलिखिता पत्रिका अपि मुख्यमन्त्रिणः समीपं प्राप्नुयात्। एषः सम्मानः मुख्यमन्त्रिणः प्रति तेषां सम्मानस्य कृतज्ञतायाश्च प्रतीकः अस्ति।
योगीआदित्यनाथस्य गुरोः गोरक्षनाथस्य तपःस्थलीरूपेण प्रसिद्धस्य ऐतिहासिकगोरखगिरिपर्वतस्य पर्यटनतीर्थरूपेण विकासाय बुन्देलीसमाजेन तेषां प्रति कृतज्ञता व्यक्तीकृता। एतेन सह बुन्देलैः बुलडोजरबाबा जिन्दाबाद इति घोषाः अपि कृताः।
बुन्देलीसमाजः अस्मात् पूर्वम् अष्टवारं प्रधानमन्त्रिणे मोदीमहोदयाय जन्मदिवसशुभकामनाः प्रेषितवान्। अद्यपर्यन्तं द्विपञ्चाशद्वारं स्वीयरुधिरेण पत्राणि लिखित्वा बुन्देलखण्डस्य विविधाः समस्याः प्रधानमन्त्रिणः समीपं प्रेषिताः। एतेन सह बुन्देलैः मोदीमहोदयस्य अनन्तरं योगीआदित्यनाथः प्रधानमन्त्रिपदे प्रतिष्ठाप्येत इति ईश्वरस्य समीपे प्रार्थना कृता।
बुन्देलीसमाजस्य महामन्त्री डॉ अजयबरसैयां अवदत् यत् अद्य समाजस्य विंशतिः सदस्याः योगीआदित्यनाथाय अभिनन्दनसन्देशप्रेषणार्थं स्वीयं रुधिरं दत्तवन्तः। एतेषु डॉ देवेन्द्रः, अनुरागपुरवारः, मनीषजैदकः, दिलीपजैनः, अमरचन्दविश्वकर्मा, कैप्टनमोहनसिंहः, हरिओमनिषादः, गयाप्रसादः, कृष्णः, पवनः, प्रेमचौरसिया, अच्छेलालसोनी, सिद्धेसोनी, राजूताम्रकारः तथा बुन्देलीसमाजस्य अन्ये सदस्याः सम्मिलिताः आसन्।
पिता पुत्रश्च अभिनन्दनसन्देशलेखनार्थं रुधिरदानम् अकुरुताम्
मुख्यमन्त्रिणः जन्मदिवसे रुधिरेण अभिनन्दनसन्देशलेखनार्थं पिता पुत्रश्च एकत्र स्वीयं रुधिरं दत्तवन्तौ। आल्हाचौकस्थिते कार्यक्रमे प्रेमचौरसिया तदीयः षोडशवर्षीयः पुत्रः कृष्णः रुधिरदानं कृत्वा बुलडोजरबाबा जिन्दाबाद इति घोषान् अकुरुताम्।
Hindusthan Samachar / Dheeraj Maithani