Enter your Email Address to subscribe to our newsletters

नवदेहली, ०५ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य गुजरात-दमनयोः प्रवासं करिष्यति। सः अपराह्णे प्रायः सार्ध-द्विवादने गुजरात-राज्यस्य सुरत-जनपदस्थिते हजीराक्षेत्रे सञ्चाल्यमानानाम् औद्योगिक-कार्याणाम् आधारभूत-संरचना-परियोजनानां च समीक्षां करिष्यति। ततः सायं प्रायः सवादन-चतुर्वादने सुरतनगरे प्रायः १८,८०० कोटि-रूप्यक-मूल्यानां विविध-विकास-परियोजनानाम् उद्घाटनं राष्ट्राय समर्पणं च करिष्यति। अस्मिन् अवसरे सः सभां सम्बोधयिष्यति अपि। एषा सूचना आधिकारिक-विज्ञप्तौ प्रदत्ता अस्ति।
सर्वकारी-विज्ञप्तेः अनुसारं ततः परं प्रधानमन्त्री दमनं प्रति प्रस्थितः भविष्यति। सः तत्र सायं प्रायः सवादन-षड्वादने दमन-स्थितस्य नमो-विमानस्थानकस्य नूतन-टर्मिनल-भवनस्य उद्घाटनं करिष्यति। अनन्तरं दमन-स्थितं नमो-चिकित्सालयं राष्ट्राय समर्पयिष्यति। प्रधानमन्त्री सायं प्रायः सवादन-सप्तवादने प्रायः २,९७० कोटि-रूप्यक-मूल्यानां विविध-विकास-परियोजनानाम् उद्घाटनं, राष्ट्राय समर्पणं, शिलान्यासं च करिष्यति। सः केन्द्रशासित-प्रदेशस्य लक्षद्वीपस्य कृते प्रायः ८८५ कोटि-रूप्यक-मूल्यानां चतसृणां महत्त्वपूर्ण-विकास-परियोजनानाम् अपि शिलान्यासं करिष्यति। अस्मिन् अवसरे सः जनसमूहम् अपि सम्बोधयिष्यति।
Hindusthan Samachar / Divya Ranjan