Enter your Email Address to subscribe to our newsletters

नवदेहली, ०५ जूनमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्रिणः गोरक्षपीठाधीश्वरस्य योगी-आदित्यनाथस्य ५४तम-जन्मदिवसावसरे प्रधानमन्त्री नरेन्द्रमोदी, केन्द्रीयगृहमन्त्री अमित-शाहः, रक्षामन्त्री राजनाथसिंहः, लोकसभाध्यक्षः ओम् बिरला इत्यादयः अनेकाः केन्द्रीयमन्त्रिणः विविधराज्यानां मुख्यमन्त्रिणश्च तस्मै उत्तम-आरोग्यं दीर्घायुष्यं निरन्तर-जनसेवां च कामयित्वा शुभकामनाः प्रेषितवन्तः। नेतारः योगी-आदित्यनाथस्य नेतृत्वे उत्तरप्रदेशे प्राप्तानां विकास-प्रशासन-जनकल्याणकार्याणां च प्रशंसां कृतवन्तः।
प्रधानमन्त्री नरेन्द्रमोदी ‘एक्स’ इति सामाजिकमाध्यमे योगी-आदित्यनाथाय जन्मदिवसावसरे शुभकामनाः दत्त्वा उक्तवान् यत् उत्तरप्रदेशस्य विकासे प्रगतौ च तस्य योगदानं महत्त्वपूर्णम् अस्ति। सः अवदत् यत् योगी-आदित्यनाथः सर्वदा प्रदेशवासिनां जीवनस्तरस्य उन्नयनाय सर्वांगीण-विकासाय च प्राधान्यं दत्तवान्। तस्य दीर्घायुः सुखमय-जीवनं च सः अकाङ्क्षितवान्।
लोकसभाध्यक्षः ओम् बिरला अपि योगी-आदित्यनाथं बधाई दत्त्वा तस्य उत्तम-आरोग्यस्य सुखमय-मङ्गलमय-जीवनस्य च कामनां कृतवान्। सः अवदत् यत् तस्य सार्वजनिक-जीवनं समाजसेवायाः राष्ट्रसेवायाः च आदर्शः अस्ति।
केन्द्रीयगृहमन्त्री अमित-शाहः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदी-महोदयस्य नेतृत्वे उत्तरप्रदेशे द्वेन्द्र-सर्वकारः सुशासनस्य जनकल्याणस्य च नूतनान् मानकान् स्थापयति। सः विश्वासं प्रकटितवान् यत् योगी-आदित्यनाथस्य नेतृत्वे प्रदेशः विकासस्य नूतनान् शिखरान् स्पृशिष्यति। सः तस्य उत्तम-आरोग्यं दीर्घायुष्यं च कामितवान्।
रक्षामन्त्री राजनाथसिंहः योगी-आदित्यनाथं लोकप्रियं कर्मठं दूरदर्शिनं च मुख्यमन्त्रिणं इति वर्णयन् अवदत् यत् तस्य नेतृत्वे उत्तरप्रदेशः कानून-व्यवस्था, सुशासनं, आधारभूतसंरचना-विकासः तथा जनकल्याणक्षेत्रेषु उल्लेखनीयाः उपलब्धयः प्राप्ताः। सः ईश्वरं प्रार्थितवान् यत् तस्मै निरन्तरं ऊर्जा-सामर्थ्य-सफलता च प्रदीयेत।
केंद्रीयमन्त्री मनोहरलालः योगी-आदित्यनाथं ऊर्जावन्तं लोकप्रियं च जननेतारं इति उक्त्वा प्रभुश्रीरामं तस्य स्वस्थ-सुदीर्घ-मङ्गलमय-जीवनं च प्रार्थितवान्। सः अवदत् यत् तस्य नेतृत्वे उत्तरप्रदेशः विकासस्य नूतनान् आयामान् स्थापयति।
केंद्रीयमन्त्री गिरिराजसिंहः अपि शुभकामनाः दत्त्वा तस्य उज्ज्वलभविष्यं राष्ट्रसेवायां च नूतन-कीर्तिमानानां स्थापनं च कामितवान्।
भारतीयजनतापक्षस्य वरिष्ठनेता नितिन-नवीनः अपि उत्तम-आरोग्यं दीर्घायुष्यं निरन्तर-जनसेवायै च शक्तिं कामितवान्।
दिल्लीमुख्यमन्त्री रेखा-गुप्ता, मध्यप्रदेशमुख्यमन्त्री मोहनयादवः, राजस्थानमुख्यमन्त्री भजनलाल-शर्मा, पश्चिमबङ्गमुख्यमन्त्री शुभेन्दु-अधिकारी इत्यादयः अपि शुभकामनाः सम्प्रेष्य योगी-आदित्यनाथस्य दीर्घ-आरोग्यम् एवं निरन्तर-सफलतां च अकाङ्क्षितवन्तः।
उल्लेखनीयम् यत् योगी-आदित्यनाथस्य जन्म १९७२ तमे वर्षे जूनमासस्य ५ दिनाङ्के उत्तराखण्डराज्यस्य पौड़ी-गढवालजनपदे अभवत्। तस्य मूलनाम अजयसिंह-बिष्ट: इति अस्ति। आध्यात्मिक-सामाजिकजीवनात् राजनीतौ आगत्य सः दीर्घकालं यावत् गोरखपुरात् सांसदः आसीत्। २०१७ तमे वर्षे सः उत्तरप्रदेशस्य मुख्यमन्त्रीपदं स्वीकृतवान् तथा २०२२ तमे वर्षे पुनः द्वितीयवारं मुख्यमन्त्री अभवत्। अधुना सः उत्तरप्रदेशस्य २१तमः मुख्यमन्त्री इति रूपेण कार्यरतः अस्ति।
Hindusthan Samachar / Divya Ranjan