प्रदेशस्य सर्वेषु विद्यालयेषु गठिता भविष्यति एनसीसी, एनएसएस अथ च स्काउट-गाइड-एककं च - डॉ रावतः
देहरादूनम्, 05 जूनमासः (हि.स.)। विद्यालयीयशिक्षामन्त्री डॉ. धनसिंहरावतः निर्देशान् दत्तवान् यत् प्रदेशस्य सर्वेषु विद्यालयेषु एनसीसी, एनएसएस तथा स्काउटगाइड इत्येतासां एककानां गठनं सुनिश्चितं क्रियताम्, येन प्रत्येकः छात्रः छात्रा च अनुशासननेतृत्व
अधिकारियों के साथ चर्चा करते डा रावत


देहरादूनम्, 05 जूनमासः (हि.स.)।

विद्यालयीयशिक्षामन्त्री डॉ. धनसिंहरावतः निर्देशान् दत्तवान् यत् प्रदेशस्य सर्वेषु विद्यालयेषु एनसीसी, एनएसएस तथा स्काउटगाइड इत्येतासां एककानां गठनं सुनिश्चितं क्रियताम्, येन प्रत्येकः छात्रः छात्रा च अनुशासननेतृत्वसामाजिकसेवासम्बद्धासु गतिविधिषु सहभागितायाः अवसरं प्राप्नुयात्। तेन विद्यालयेषु विद्यालयत्यागिनां विद्यार्थिनां दरं शून्यं कर्तुं प्रभावी कार्ययोजना निर्मातुमपि विशेषबलं दत्तम्।

श्रीनगरे आयोजितायां विद्यालयीयशिक्षाविभागस्य समीक्षोपवेशने मन्त्री उक्तवान् यत् राज्यसर्वकारः विद्यार्थिभ्यः गुणवत्तायुक्तां समावेशिनीं छात्रकेन्द्रितां च शिक्षां प्रदातुं प्रतिबद्धः अस्ति। तेन अधिकारिभ्यः विद्यालयेषु डिजिटलशिक्षायाः प्रोत्साहनं कर्तुं, मुख्यमन्त्री छात्रवृत्तियोजनायाः व्यापकप्रचारप्रसारं कर्तुं तथा पात्रविद्यार्थिभ्यः अस्याः अधिकतमं लाभं प्रदातुं निर्देशाः प्रदत्ताः।

तेन उक्तं यत् आर्थिकाभावः कस्यापि बालकस्य शिक्षायां बाधा न भवेत्, एतदर्थं सर्वकारेण निःशुल्कपाठ्यपुस्तकानि, टिप्पणिपुस्तिकाः, गणवेशाः, उपानहौ तथा द्विचक्रिकाः प्रदीयन्ते। सहैव विद्यार्थिनां नियमितोपस्थितिः सुनिश्चितीकरणीयाः तथा विद्यालयत्यागिनां बालकानां सङ्ख्यां निवारयितुं विशेषप्रयत्नाः करणीयाः।

उपवेशने मन्त्रिणा छात्रसङ्ख्यायाः आधारेण विद्यालयानाम् उच्चीकरणं, डी श्रेणीविद्यालयानां निर्माणकार्याणां कृते विस्तृतपरियोजनाप्रतिवेदनस्य निर्माणं, विकासखण्डवारं मात्राकरणं तथा शिक्षकाणां पदोन्नतिसम्बद्धेषु विषयेषु शीघ्रतया कार्यं कर्तुं निर्देशाः प्रदत्ताः। तेन अटलोत्कृष्टविद्यालयानाम्, क्लस्टरविद्यालयानाम्, निःशुल्कपाठ्यपुस्तकवितरणस्य, आधारभूतसंरचनाविकासस्य तथा निर्माणकार्याणां प्रगतेः समीक्षां कृत्वा विद्यालयेषु उपवेशनसामग्री, पेयजलम्, विद्युत्सुविधा, शौचालयाः तथा सङ्गणकप्रयोगशालाः इत्यादीनां मूलभूतसुविधानां गुणवत्तां सुनिश्चितां कर्तुं बलं दत्तम्।

उपवेशने उपसचिवः विद्यालयीयशिक्षा ए.के. शुक्लः, अपरनिदेशकः विद्यालयीयशिक्षा के.एस. रावतः, अपरनिदेशकः माध्यमिकशिक्षा परमेन्द्रकुमारः, अनुसचिवः विकासश्रीवास्तवः तथा गढवालमण्डलस्य सर्वे मुख्यशिक्षाधिकारिणः, डायटप्राचार्याः अन्ये च अधिकारिणः उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani