Enter your Email Address to subscribe to our newsletters

उज्जयिनीनगरम्, ०५ जूनमासः (हि.स.)। प्रसिद्धः गायकः कैलाश-खेरः शुक्रवासरे प्रातःकाले मध्यप्रदेशस्य उज्जयिनीनगरम् आगत्य ज्योतिर्लिङ्गस्य भगवत: महाकालेश्वरस्य प्रातःकालीन-भस्मारार्तिक्यां दर्शन-लाभम् अलभत।
दर्शनानन्तरं पत्रकारै: सह संवादं कुर्वन् सः अवदत् यत्, “यः कश्चित् एकवारम् अपि बाबा-महाकालस्य दर्शनं करोति, सः जन्म-जन्मान्तर-बन्धनात् मुक्तिं प्राप्नोति। महाकालः सा शक्तिरस्ति या सम्पूर्णं ब्रह्माण्डं संचालयति। अद्य तु महाकालः इन्द्रदेवं स्वेन सह आनीय वर्षाम् अपि अकारयत्। तस्य कृपा वर्षाबिन्दुरूपेण भक्तान् स्पृष्ट्वा गता।”
श्रीमहाकालेश्वर-मन्दिर-प्रबन्ध-समित्या कैलाश-खेरस्य स्वागतं सत्कारश्च कृतः।
Hindusthan Samachar / Divya Ranjan