श्रेयस-अय्यरः काबुनी-संस्थायाः ‘सुपर-कोच’ अभवत्, क्रिकेट-प्रशिक्षणे प्रौद्योगिक्याः सहयोगः भविष्यति
मुम्बईनगरम्, ०५ जूनमासः (हि.स.)। कृत्रिमबुद्धिमत्ता-आधारित-क्रीडा-प्रौद्योगिकी-मञ्चस्य ‘काबुनी’ इति संस्थया भारतीय-क्रिकेटदलस्य प्रसिद्धः क्रीडक: श्रेयस-अय्यरः ‘सुपर-कोच’ इति रूपेण सम्बद्धः इति घोषणा कृता। संस्थायाः मते श्रेयस-अय्यरस्य सम्मिलनेन प्
श्रेयस अय्यर


मुम्बईनगरम्, ०५ जूनमासः (हि.स.)। कृत्रिमबुद्धिमत्ता-आधारित-क्रीडा-प्रौद्योगिकी-मञ्चस्य ‘काबुनी’ इति संस्थया भारतीय-क्रिकेटदलस्य प्रसिद्धः क्रीडक: श्रेयस-अय्यरः ‘सुपर-कोच’ इति रूपेण सम्बद्धः इति घोषणा कृता। संस्थायाः मते श्रेयस-अय्यरस्य सम्मिलनेन प्रौद्योगिक्याः विश्वस्तरीय-क्रिकेट-अनुभवस्य च समन्वयः नूतनां गतिं प्राप्स्यति।

श्रेयस-अय्यरः अधुना काबुनी-संस्थायाः ‘सुपर-कोच’-समूहे सम्मिलितः अस्ति, यस्मिन् पूर्वमेव सौरव-गाङ्गुली, शेन-वॉट्सन तथा ए.बी.-डी-विलियर्स इत्यादयः दिग्गज-क्रिकेट-क्रीडकाः सन्ति। एते सर्वे ७ जूनदिनाङ्के मुम्बईनगरे आयोज्यमाने ‘काबुनी-शोकेस’-कार्यक्रमे उपस्थिताः भविष्यन्ति। अस्मिन् कार्यक्रमे संस्था स्वस्य मञ्चं तथा उदयोन्मुख-क्रिकेट-क्रीडकानां कृते उपलब्धान् अवसरान् प्रदर्शयिष्यति।

कार्यक्रमस्य प्रमुख-आकर्षणेषु “वॉन्ट् टू प्ले फॉर ए लीजेण्ड्?” इति नाम्ना राष्ट्रिय-युवा-क्रिकेट-प्रतियोगिता अपि भविष्यति, या जूनमासे प्रारभ्यते। अस्याम् १२ तः १६ वर्षपर्यन्त-वयस्काः क्रीडकाः भागं ग्रहीतुं शक्नुवन्ति। प्रतियोगिताकाले क्रीडकाः काबुनी-संस्थायाः प्रौद्योगिकी-आधारित-मूल्याङ्कन-प्रणाल्याः माध्यमेन स्वप्रदर्शनं दर्शयिष्यन्ति तथा श्रेयस-अय्यरस्य दलस्य सदस्यत्वं प्राप्तुं अवसरं लप्स्यन्ते।

काबुनी-मञ्चः क्रीडकानां प्रदर्शनस्य तथा कन्दुक-सम्बद्धानां विवरणानां वास्तविक-समये विश्लेषणं करोति तथा ध्वनि-, दृश्य- तथा चलच्चित्र-आधारितं वैयक्तिकं प्रतिपोषणं (फीडबैक) प्रददाति। एषः मञ्चः लघु-लघु-सुधाराणां माध्यमेन क्रीडकाणां दीर्घकालिक-विकासस्य अवधारणायां कार्यं करोति।

जैव-यान्त्रिकी (बायोमैकेनिक्स्) तथा गतिविश्लेषणम् इत्यादीनां आधुनिक-प्रौद्योगिकीनां साहाय्येन काबुनी-संस्था तादृशानि प्रशिक्षण-साधनानि क्रीडकेभ्यः प्रदातुं प्रयतते, यानि पूर्वं केवलं उच्चस्तरीय-क्रिकेट-क्रीडकानामेव कृते उपलब्धानि मन्यन्ते स्म।

श्रेयस-अय्यरः अवदत्— “भारतीय-क्रिकेटे प्रतिभायाः कदापि अभावः नास्ति। आवश्यकता केवलं समुचित-मार्गदर्शनस्य यथार्थ-प्रतिपोषणस्य च अस्ति। क्रीडकाः यत्र सन्ति, यत्र च गन्तुम् इच्छन्ति, तयोः मध्ये अन्तरम् अत्यल्पम् अस्ति। काबुनी एतां दूरीं न्यूनीकर्तुं प्रयतते तथा क्रीडकेभ्यः शीघ्रतर-विकासाय उत्तमानि साधनानि प्रददाति।”

काबुनी-संस्थायाः संस्थापकः मुख्य-कार्यकारी-अधिकारी च निमेश-पटेलः अवदत्— “श्रेयस-अय्यरः आधुनिक-क्रिकेटस्य नूतन-चिन्तनस्य प्रतिनिधित्वं करोति। तस्य दृष्टिकोणः अस्माकं ध्येयेन सह पूर्णतया समानं गच्छति। अस्माकं लक्ष्यं तादृशान् क्रीडकान् निर्मातुम् अस्ति, ये तकनीकी-दृष्ट्या सबलाः तथा मानसिक-दृष्ट्या आत्मविश्वासिनः स्युः।”

Hindusthan Samachar / Divya Ranjan