Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 05 जूनमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमन्त्रिणः योगिनःआदित्यनाथस्य चतुःपञ्चाशत्तमजन्मदिवसस्य अवसरे शुक्रवासरे विश्वविख्याते मातृविन्ध्यवासिनीधाम्नि विशेषधार्मिकानुष्ठानानाम् आयोजनम् अभवत्। तीर्थपुरोहितैः श्रद्धालुभिश्च मातुः विन्ध्यवासिन्याः चरणयोः पूजनार्चनं कृत्वा मुख्यमन्त्रिणः उत्तमस्वास्थ्यस्य दीर्घायुषः प्रदेशस्य च निरन्तरोन्नतेः कामना कृता।
प्रातःकालात् एव मन्दिरपरिसरे वैदिकानुष्ठानानां क्रमः प्रारब्धः आसीत्। वैदिकमन्त्रौच्चारणस्य मध्ये मातुः विन्ध्यवासिन्याः विशेषशृङ्गारः पूजनं च सम्पन्नम्। ततः परं मुख्यमन्त्रिणः योगीआदित्यनाथस्य जन्मदिवसोपलक्ष्ये विधिविधानपूर्वकं होमस्य आयोजनम् अभवत्, यस्मिन् आहुतिं दत्त्वा तस्य स्वस्थदीर्घजीवनस्य मङ्गलकामना कृता।
होमे प्रदेशस्य विकासाय, जनकल्याणाय, शान्तये, समृद्धये च विशेषप्रार्थना अपि कृता। तीर्थपुरोहितैः उक्तं यत् मुख्यमन्त्रिणः योगीआदित्यनाथस्य नेतृत्वे उत्तरप्रदेशः विकासस्य, सुशासनस्य, जनसेवायाश्च नूतनमानदण्डान् स्थापयति। तैः मातुः विन्ध्यवासिन्याः समीपे मुख्यमन्त्रिणे निरन्तरजनसेवायै शक्तिं, उत्तमस्वास्थ्यं, दीर्घायुष्यं च प्रदातुम् प्रार्थना कृता।
होमानन्तरं भव्यआरात्रिकस्य आयोजनम् अभवत्, यस्मिन् बहुसंख्यकाः श्रद्धालवः स्थानीयजनाश्च सहभागिनः अभवन्। आरात्रिककाले मन्दिरपरिसरः मातुः विन्ध्यवासिन्याः जयघोषैः वैदिकमन्त्रैश्च निनादितः अभवत्। श्रद्धालुभिः मुख्यमन्त्रिणे जन्मदिवसस्य शुभकामनाः प्रदत्ताः तथा तस्य सफलनेतृत्वस्य प्रदेशस्य च निरन्तरप्रगतेः कामना कृता।
कार्यक्रमकाले प्रसादवितरणम् अपि कृतम्। समग्रस्य विन्ध्यधाम्नः वातावरणं भक्तिमयं जातम् तथा श्रद्धालुभिः प्रदेशे सुखशान्तिसमृद्धीनां प्रार्थना कृता।
अस्मिन् अवसरे धनञ्जयोपाध्यायः, शिवम्पाण्डेयः, रोहितत्रिपाठी, उत्तमपाण्डेयः, कामेशभट्टः, पुक्कनतिवारी, हनुमानपाण्डेयः, राजापालः, टिकुनदुबे इत्यादयः अन्ये श्रद्धालवः, तीर्थपुरोहिताः, धर्मप्रेमिणश्च उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani